अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 27
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
अपे॒मं जी॒वाअ॑रुधन्गृ॒हेभ्य॒स्तं निर्व॑हत॒ परि॒ ग्रामा॑दि॒तः। मृ॒त्युर्य॒मस्या॑सीद्दू॒तःप्रचे॑ता॒ असू॑न्पि॒तृभ्यो॑ गम॒यां च॑कार ॥
स्वर सहित पद पाठअप॑ । इ॒मम् । जी॒वा: । अ॒रु॒ध॒न् । गृ॒हेभ्य॑: । तम् । नि: । व॒ह॒त॒ । परि॑ । ग्रामा॑त् । इ॒त: । मृ॒त्यु: । य॒मस्य॑ । आ॒सी॒त् । दू॒त: । प्रऽचे॑ता: । असू॑न् । पि॒तृऽभ्य॑: । ग॒म॒याम् । च॒का॒र॒ ॥२.२७॥
स्वर रहित मन्त्र
अपेमं जीवाअरुधन्गृहेभ्यस्तं निर्वहत परि ग्रामादितः। मृत्युर्यमस्यासीद्दूतःप्रचेता असून्पितृभ्यो गमयां चकार ॥
स्वर रहित पद पाठअप । इमम् । जीवा: । अरुधन् । गृहेभ्य: । तम् । नि: । वहत । परि । ग्रामात् । इत: । मृत्यु: । यमस्य । आसीत् । दूत: । प्रऽचेता: । असून् । पितृऽभ्य: । गमयाम् । चकार ॥२.२७॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 27
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २७−(अप) आनन्दे (इमम्) ब्रह्मचारिणम् (जीवाः)प्राणधारकाः। महात्मानः (अरुधन्) अवरोधेन धारितवन्तः (गृहेभ्यः) गृहाणां हिताय (तम्) ब्रह्मचारिणम् (निः) निश्चयेन (वहत) नयत (परि) परितः (ग्रामात्) समूहात्।विद्यालयमध्यात् (इतः) अस्मात् (मृत्युः) प्राणत्यागः। आत्मत्यागः (यमस्य)संयमिनः पुरुषस्य (आसीत्) अभवत् (दूतः) उत्तापकः। उत्तेजकः (प्रचेताः)प्रकृष्टानि चेतांसि यस्य सः। प्रचेतयिता। प्रज्ञापयिता (असून्) प्राणान् (पितृभ्यः) पालकमहात्मभ्यः (गमयांचकार) प्रेषयामास ॥
इस भाष्य को एडिट करें