अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 33
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
अपा॑गूहन्न॒मृतां॒ मर्त्ये॑भ्यः कृ॒त्वा सव॑र्णामदधु॒र्विव॑स्वते।उ॒ताश्विना॑वभर॒द्यत्तदासी॒दज॑हादु॒ द्वा मि॑थु॒ना स॑र॒ण्यूः ॥
स्वर सहित पद पाठअ॒प । अ॒गू॒ह॒न् । अ॒मृता॑म् । मर्त्ये॑भ्य: । कृ॒त्वा । सऽव॑र्णाम् । अ॒द॒धु॒: । विव॑स्वते । उ॒त । अ॒श्विनौ॑ । अ॒भ॒र॒त् । यत् । तत् । आसी॑त् । अज॑हात् । ऊं॒ इति॑ । द्वा । मि॒थु॒ना । स॒र॒ण्यू: ॥२.३३॥
स्वर रहित मन्त्र
अपागूहन्नमृतां मर्त्येभ्यः कृत्वा सवर्णामदधुर्विवस्वते।उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः ॥
स्वर रहित पद पाठअप । अगूहन् । अमृताम् । मर्त्येभ्य: । कृत्वा । सऽवर्णाम् । अदधु: । विवस्वते । उत । अश्विनौ । अभरत् । यत् । तत् । आसीत् । अजहात् । ऊं इति । द्वा । मिथुना । सरण्यू: ॥२.३३॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 33
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३३−(अप) आनन्दे (अगूहन्) गुहू संवरणे-लङ्। अन्तर्हितां कृतवन्तःपरमात्मनियमाः प्रलये (अमृताम्) नित्यां प्रकृतिम्। जगत्सामग्रीम् (मर्त्येभ्यः)मरणधर्मणां मनुष्यादिप्राणिनां हिताय (सवर्णाम्) समानवर्णनीयां स्वीकरणीयाम् (अदधुः) अधारयन् परमेश्वरनियमाः (विवस्वते) प्रकाशमयाय। परमात्माज्ञापालनाय (उत)अपि च (अश्विनौ) प्राणापानौ (अभरत्) अधरत् (यत्) जगत् (तत्) सर्वम् (आसीत्) (अजहात्) ओहाक् त्यागे-लङ्। अत्यजत्। असृजत् (उ) चार्थे (द्वा) द्वौ (मिथुना)मिथुनौ। स्त्रीपुंसात्मकौ यमलौ (सरण्यूः) सृयुवचिभ्योऽन्युजागूजक्नुचः। उ० ३।८१।सृ गतौ-अन्युच्, ऊङ् स्त्रियाम्। व्यापिका प्रकृतिः। जगत्सामग्री ॥
इस भाष्य को एडिट करें