Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 49
    सूक्त - यम, मन्त्रोक्त देवता - भुरिक् त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    ये न॑ पि॒तुःपि॒तरो॒ ये पि॑ताम॒हा य आ॑विवि॒शुरु॒र्वन्तरि॑क्षम्। य आ॑क्षि॒यन्ति॑पृथि॒वीमु॒त द्यां तेभ्यः॑ पि॒तृभ्यो॒ नम॑सा विधेम ॥

    स्वर सहित पद पाठ

    ये । न॒: । पि॒तु: । पि॒तर॑: । ये । पि॒ता॒म॒हा । ये । आ॒ऽवि॒वि॒शु: । उ॒रु । अ॒न्तरि॑क्षम् । ये । आऽक्षि॒यन्ति॑ । पृथि॒वीम् । उ॒त । द्याम् । तेभ्य॑: । पि॒तृऽभ्य॑: । नम॑सा । वि॒धे॒म॒ ॥२.४९॥


    स्वर रहित मन्त्र

    ये न पितुःपितरो ये पितामहा य आविविशुरुर्वन्तरिक्षम्। य आक्षियन्तिपृथिवीमुत द्यां तेभ्यः पितृभ्यो नमसा विधेम ॥

    स्वर रहित पद पाठ

    ये । न: । पितु: । पितर: । ये । पितामहा । ये । आऽविविशु: । उरु । अन्तरिक्षम् । ये । आऽक्षियन्ति । पृथिवीम् । उत । द्याम् । तेभ्य: । पितृऽभ्य: । नमसा । विधेम ॥२.४९॥

    अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 49

    टिप्पणीः - ४९−(ये) माननीयाः (नः) अस्माकम् (पितुः) जनकस्य (पितरः)पितृतुल्यमाननीयाः (ये) (पितामहाः) पितामहसमानपूजनीयाः (ये) (आविविशुः)प्रविष्टा बभूवुः (उरु) विस्तृतम् (अन्तरिक्षम्) आकाशम् (ये) (आक्षियन्ति) क्षिऐश्वर्यनिवासयोः। अन्तर्गतण्यर्थः। क्षयति क्षियति, ऐश्वर्यकर्मा-निघ० २।२१।समन्ताद्दर्शयन्ति। सम्यक् शासति (पृथिवीम्) (उत) अपि च (द्याम्) आकाशम् (तेभ्यः) तादृशेभ्यः (पितृभ्यः) पालकेभ्यो महात्मभ्यः (नमसा) अन्नेन (विधेम)परिचरेम-निघ० ३।५ ॥

    इस भाष्य को एडिट करें
    Top