Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 34
    सूक्त - अग्नि देवता - अनुष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    ये निखा॑ता॒ येपरो॑प्ता॒ ये द॒ग्धा ये चोद्धि॑ताः। सर्वां॒स्तान॑ग्न॒ आ व॑ह पि॒तॄन्ह॒विषे॒अत्त॑वे ॥

    स्वर सहित पद पाठ

    ये । निऽखा॑ता: । ये । परा॑ऽउप्ता: । ये । द॒ग्धा: । ये । च॒ । उद्धि॑ता: । सर्वा॑न् । तान् । अ॒ग्ने॒ । आ । व॒ह॒ । पि॒तॄन्‌ । ह॒विषे॑ । अत्त॑वे ॥२.३४॥


    स्वर रहित मन्त्र

    ये निखाता येपरोप्ता ये दग्धा ये चोद्धिताः। सर्वांस्तानग्न आ वह पितॄन्हविषेअत्तवे ॥

    स्वर रहित पद पाठ

    ये । निऽखाता: । ये । पराऽउप्ता: । ये । दग्धा: । ये । च । उद्धिता: । सर्वान् । तान् । अग्ने । आ । वह । पितॄन्‌ । हविषे । अत्तवे ॥२.३४॥

    अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 34

    टिप्पणीः - ३४−(ये) विद्वांसः (निखाताः) खनुअवदारणे-क्त। ब्रह्मचर्यादिसदाचारे दृढतया स्थिताः (ये) (परोप्ताः) परा+डुवपबीजसन्ताने-क्त। उत्तमतया बीजवत् स्थापिताः (ये) (दग्धाः) दह दीप्तौ भस्मीकरणेच-क्त। ब्रह्मचर्यादिना तप्ताः। प्रदीप्यमानाः (ये) (च) (उद्धिताः)उत्+दधातेः-क्त। ऊर्ध्वं धृताः (सर्वान्) (तान्) (अग्ने) हे विद्वन् (आ वह) आनय (पितॄन्) पित्रादिरक्षकान् विद्वत्पुरुषान् (हविषे) द्वितीयार्थे चतुर्थी। हविः।ग्राह्यं पदार्थम् (अत्तवे) अद भक्षणे-तवेन् प्रत्ययः। अत्तुं भक्षितुम् ॥

    इस भाष्य को एडिट करें
    Top