अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 22
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
उत्त्वा॑ वहन्तुम॒रुत॑ उदवा॒हा उ॑द॒प्रुतः॑। अ॒जेन॑ कृ॒ण्वन्तः॑ शी॒तं व॒र्षेणो॑क्षन्तु॒बालिति॑ ॥
स्वर सहित पद पाठउत् । त्वा॒ । व॒ह॒न्तु॒ । म॒रुत॑: । उ॒द॒ऽवा॒हा: । उ॒द॒ऽप्रुत॑: । अ॒जेन॑ । कृ॒ण्वन्त॑: । शी॒तम् । व॒र्षेण॑ । उ॒क्ष॒न्तु॒ । बाल् । इति॑ ॥२.२२॥
स्वर रहित मन्त्र
उत्त्वा वहन्तुमरुत उदवाहा उदप्रुतः। अजेन कृण्वन्तः शीतं वर्षेणोक्षन्तुबालिति ॥
स्वर रहित पद पाठउत् । त्वा । वहन्तु । मरुत: । उदऽवाहा: । उदऽप्रुत: । अजेन । कृण्वन्त: । शीतम् । वर्षेण । उक्षन्तु । बाल् । इति ॥२.२२॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 22
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २२−(उत्) ऊर्ध्वम् (त्वा) (वहन्तु) प्रापयन्तु (मरुतः) मरुतोऋत्विङ्नाम-निघ० ३।१८। पवना इव विद्वांसः (उदवाहाः) कर्मण्यण्। पा० ३।२।१।उदक+वह प्रापणे-अण्, उदकस्य उदभावः। जलस्य वोढारः प्रापयितारः (उदप्रुतः) प्रुङ्गतौ-क्विप्। जले गन्तारः (अजेन) अजन्मना परमात्मना (कृण्वन्तः) कुर्वन्तः (शीतम्) शैत्यम् (वर्षेण) वृष्टिजलेन (उक्षन्तु) उक्षण उक्षतेर्वृद्धिकर्मणः-निरु०१२।९। वर्धयन्तु (बाल्) क्विब् वचिप्रच्छिश्रिस्रुद्रुप्रुज्वांदीर्घोऽसम्प्रसारणं च। उ० २।५७। बल दाने जीवने वधे च-क्विप्, दीर्घश्च। बलम् (इति) एवम् ॥
इस भाष्य को एडिट करें