अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 23
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
उद॑ह्व॒मायु॒रायु॑षे॒ क्रत्वे॒ दक्षा॑य जी॒वसे॑। स्वान्ग॑च्छतु ते॒ मनो॒ अधा॑पि॒तॄँरुप॑ द्रव ॥
स्वर सहित पद पाठउत् । अ॒ह्व॒म् ।आयु॑: । आयु॑षे । क्रत्वे॑ । दक्षा॑य । जी॒वसे॑ । स्वान् । ग॒च्छ॒तु॒ । ते॒ । मन॑: । अध॑ । पि॒तॄन् । उप॑ । द्र॒व॒ ॥२.२३॥
स्वर रहित मन्त्र
उदह्वमायुरायुषे क्रत्वे दक्षाय जीवसे। स्वान्गच्छतु ते मनो अधापितॄँरुप द्रव ॥
स्वर रहित पद पाठउत् । अह्वम् ।आयु: । आयुषे । क्रत्वे । दक्षाय । जीवसे । स्वान् । गच्छतु । ते । मन: । अध । पितॄन् । उप । द्रव ॥२.२३॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 23
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २३−(उत्) उत्तमतया (अह्वम्)आहूतवानस्मि (आयुः) तव जीवनम् (आयुषे) स्वजीवनहिताय (क्रत्वे) क्रतुःकर्मनाम-निघ० २।१, प्रज्ञानाम ३।९। क्रतवे। प्रज्ञायै, कर्मणे (दक्षाय) बलाय (जीवसे) प्राणधारणाय। पराक्रमाय (स्वान्) स्वकीयान्। ज्ञातीन् (गच्छतु)प्राप्नोतु (ते) तव (मनः) चित्तम् (अध) अपि च (पितॄन्) पालकान् महात्मनः (उप)आदरेण (द्रव) शीघ्रं गच्छ ॥
इस भाष्य को एडिट करें