अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 16
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
तप॑सा॒ येअ॑नाधृ॒ष्यास्तप॑सा॒ ये स्वर्य॒युः। तपो॒ ये च॑क्रि॒रे मह॒स्तांश्चि॑दे॒वापि॑गच्छतात् ॥
स्वर सहित पद पाठतप॑सा। ये । अ॒ना॒धृ॒ष्या: । तप॑सा । ये । स्व᳡: । य॒यु: । तप॑: । ये । च॒क्रि॒रे । मह॑: । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥२.१६॥
स्वर रहित मन्त्र
तपसा येअनाधृष्यास्तपसा ये स्वर्ययुः। तपो ये चक्रिरे महस्तांश्चिदेवापिगच्छतात् ॥
स्वर रहित पद पाठतपसा। ये । अनाधृष्या: । तपसा । ये । स्व: । ययु: । तप: । ये । चक्रिरे । मह: । तान् । चित् । एव । अपि । गच्छतात् ॥२.१६॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 16
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १६−(तपसा)ब्रह्मचर्यसेवनेन वेदाध्ययनेन च (ये) महात्मानः (अनाधृष्याः) धर्षितुमशक्याः।दुर्धर्षाः। अहिंसनीयाः (तपसा) (ये) (स्वः) सुखपदम् (ययुः) प्रापुः (तपः)ब्रह्मचर्यसेवनं वेदाध्ययनं च (ये) (चक्रिरे) कृतवन्तः (महः) स्वमहत्त्वम्।अन्यत् पूर्ववत्-म० १४ ॥
इस भाष्य को एडिट करें