अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 8
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
अ॒जोभा॒गस्तप॑स॒स्तं त॑पस्व॒ तं ते॑ शो॒चिस्त॑पतु॒ तं ते॑ अ॒र्चिः। यास्ते॑शि॒वास्त॒न्वो जातवेद॒स्ताभि॑र्वहैनं सु॒कृता॑मु लो॒कम् ॥
स्वर सहित पद पाठअ॒ज: । भा॒ग: । तप॑स: । तम् । त॒प॒स्व॒ । तम् । ते॒ । शो॒चि: । त॒प॒तु॒ । तम् । ते॒ । अ॒र्चि: । या: । ते॒ । शि॒वा: । त॒न्व᳡: । जा॒त॒ऽवे॒द॒: । ताभि॑: । व॒ह॒ । ए॒न॒म् । सु॒ऽकृता॑म् । ऊं॒ इति॑ । लो॒कम् ॥२.८॥
स्वर रहित मन्त्र
अजोभागस्तपसस्तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः। यास्तेशिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम् ॥
स्वर रहित पद पाठअज: । भाग: । तपस: । तम् । तपस्व । तम् । ते । शोचि: । तपतु । तम् । ते । अर्चि: । या: । ते । शिवा: । तन्व: । जातऽवेद: । ताभि: । वह । एनम् । सुऽकृताम् । ऊं इति । लोकम् ॥२.८॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(अजः) न जायते, जन-ड, यद्वा, अज गतिक्षेपणयोः-अच्। अजाअजनाः-निरु० ४।२५। अजन्मा। गतिमान्। जीवात्मा (भागः) सेवनीयः (तपसः) तृतीयार्थेषष्ठी। तपसा। ब्रह्मचर्यसेवनेन वेदाध्ययनेन च (तम्) जीवात्मानम् (तपस्व) तपसन्तापे ऐश्वर्ये च। प्रतापिनं कुरु (तम्) (ते) तव (शोचिः) शुच शौचे-इसि। शौचंपवित्रकर्म (तपतु) ऐश्वर्यवन्तं करोतु (तम्) (ते) (अर्चिः) अर्च पूजायाम्-इसि।पूजनीयव्यवहारः (याः) (ते) तव (शिवाः) सुखकराः (तन्वः) तन उपकारे-ऊ।उपकारशक्तयः (जातवेदः) हे प्रसिद्धज्ञान। महाविद्वन् (ताभिः) उपकारशक्तिभिः (वह) प्रापय (एनम्) जीवात्मानम् (सुकृताम्) पुण्यकर्मणाम् (उ) अवश्यम् (लोकम्)समाजम् ॥
इस भाष्य को एडिट करें