अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 48
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
उ॑द॒न्वती॒द्यौर॑व॒मा पी॒लुम॒तीति॑ मध्य॒मा। तृ॒तीया॑ ह प्र॒द्यौरिति॒ यस्यां॑ पि॒तर॒आस॑ते ॥
स्वर सहित पद पाठउ॒द॒न्ऽवती॑ । द्यौ: । अ॒व॒मा । पी॒लुऽम॑ती । इति॑ । म॒ध्य॒मा । तृतीया॑ । ह॒ । प्र॒ऽद्यौ: । इति॑ । यस्या॑म् । पि॒तर॑: । आस॑ते ॥२.४८॥
स्वर रहित मन्त्र
उदन्वतीद्यौरवमा पीलुमतीति मध्यमा। तृतीया ह प्रद्यौरिति यस्यां पितरआसते ॥
स्वर रहित पद पाठउदन्ऽवती । द्यौ: । अवमा । पीलुऽमती । इति । मध्यमा । तृतीया । ह । प्रऽद्यौ: । इति । यस्याम् । पितर: । आसते ॥२.४८॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 48
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४८−(उदन्वती) उदन्वानुदधौ च। पा० ८।२।१३। उदकस्य उदन् मतौ, निन्दायां मतुप्। अल्पजला नदी यथा (द्यौः) प्रकाशकर्मा विद्यादयानन्दभाष्ये, यजु० १८।१८। प्रकाशमाना विद्या (अवमा) अवद्यावमाधमार्वरेफाः कुत्सिते। उ० ५।५४।अव रक्षणगतिवधादिषु-अमप्रत्ययः। कुत्सिता। अल्पा (पीलुमती) मृगय्वादयश्च। उ०१।३७। पील रोधने-कु। द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः। अमरः २३।१९३।प्रसूनवती। पुष्पयुक्ता लता यथा (इति) पादपूरणे (मध्यमा) (तृतीया) (ह) निश्चयेन। (प्रद्यौः) प्रकर्षेण दीप्यमाना विद्या (इति) (यस्याम्) विद्यायाम् (पितरः)पालका महात्मानः (आसते) तिष्ठन्ति ॥
इस भाष्य को एडिट करें