अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 30
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
यां ते॑ धे॒नुंनि॑पृ॒णामि॒ यमु॑ ते क्षी॒र ओ॑द॒नम्। तेना॒ जन॑स्यासो भ॒र्ता योऽत्रास॒दजी॑वनः॥
स्वर सहित पद पाठयाम् । ते॒ । धे॒नुम् । नि॒ऽपृ॒णामि॑ । यम् । ऊं॒ इति॑ । ते॒ । क्षी॒रे । ओ॒द॒नम् । तेन॑ । जन॑स्य । अ॒स॒: । भ॒र्ता । य: । अत्र॑ । अस॑त् । अजी॑वन: ॥२.३०॥
स्वर रहित मन्त्र
यां ते धेनुंनिपृणामि यमु ते क्षीर ओदनम्। तेना जनस्यासो भर्ता योऽत्रासदजीवनः॥
स्वर रहित पद पाठयाम् । ते । धेनुम् । निऽपृणामि । यम् । ऊं इति । ते । क्षीरे । ओदनम् । तेन । जनस्य । अस: । भर्ता । य: । अत्र । असत् । अजीवन: ॥२.३०॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 30
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३०−(याम्) (ते) तुभ्यम् (धेनुम्) दोग्ध्रीं गाम् (निपृणामि) पॄपालनपूरणयोः। नितरां पालयामि। धरामि (यम्) (उ) चार्थे (क्षीरे) दुग्धे (ओदनम्)भक्तम्। स्विन्नान्नम् (तेन) कारणेन (जनस्य) तस्य पुरुषस्य (असः) भवेः (भर्त्ता)पोषकः (यः) (अत्र) (असत्) भवेत् (अजीवनः) निर्जीवकः। निर्बलः ॥
इस भाष्य को एडिट करें