अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 15
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
ये चि॒त्पूर्व॑ऋ॒तसा॑ता ऋ॒तजा॑ता ऋता॒वृधः॑। ऋषी॒न्तप॑स्वतो यम तपो॒जाँ अपि॑ गच्छतात् ॥
स्वर सहित पद पाठये । चि॒त् । पूर्वे॑ । ऋ॒तऽसा॑ता: । ऋ॒तऽजा॑ता: । ऋ॒त॒ऽवृध॑: । ऋषी॑न् । तप॑स्वत: । य॒म॒ । त॒प॒:ऽजान् । अपि॑ । ग॒च्छ॒ता॒त् ॥२.१५॥
स्वर रहित मन्त्र
ये चित्पूर्वऋतसाता ऋतजाता ऋतावृधः। ऋषीन्तपस्वतो यम तपोजाँ अपि गच्छतात् ॥
स्वर रहित पद पाठये । चित् । पूर्वे । ऋतऽसाता: । ऋतऽजाता: । ऋतऽवृध: । ऋषीन् । तपस्वत: । यम । तप:ऽजान् । अपि । गच्छतात् ॥२.१५॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १५−(ये) विद्वांसः (चित्) एव (पूर्वे)प्रथमश्रेणिस्थाः। पूर्णविद्वांसः (ऋतसाताः) षण संभक्तौ-क्त। जनसनखनां सञ्झलोः।पा० ६।४।४२। इत्यात्वम्। सत्यधर्मेण सेविताः (ऋतजाताः) सत्यधर्मेण प्रादुर्भूताःप्रसिद्धाः (ऋतावृधः) सत्यधर्मेण वर्धितारो वर्धयितारश्च (ऋषीन्) वेदार्थदर्शिनःपुरुषान् (तपस्वतः) ब्रह्मचर्यवेदाध्ययनयुक्तान् (यम) हे संयमिन् पुरुष (तपोजान्) तपसा जातान् (अपि) अवश्यम् (गच्छतात्) गच्छ ॥
इस भाष्य को एडिट करें