अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 31
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
अश्वा॑वतीं॒ प्रत॑र॒ या सु॒शेवा॒र्क्षाकं॑ वा प्रत॒रं नवी॑यः। यस्त्वा॑ ज॒घान॒ वध्यः॒ सोअ॑स्तु॒ मा सो अ॒न्यद्वि॑दत भाग॒धेय॑म् ॥
स्वर सहित पद पाठअश्व॑ऽवतीम् । प्र । त॒र॒ । या । सु॒ऽशेवा॑ । ऋ॒क्षक॑म् । वा॒ । प्र॒ऽत॒रम् । नवी॑य: । य: । त्वा॒ । ज॒घान॑ । वध्य॑: । स: । अ॒स्तु॒ । मा । स: । अ॒न्यत् । वि॒द॒त॒ । भा॒ग॒ऽधेय॑म् ॥२.३१॥
स्वर रहित मन्त्र
अश्वावतीं प्रतर या सुशेवार्क्षाकं वा प्रतरं नवीयः। यस्त्वा जघान वध्यः सोअस्तु मा सो अन्यद्विदत भागधेयम् ॥
स्वर रहित पद पाठअश्वऽवतीम् । प्र । तर । या । सुऽशेवा । ऋक्षकम् । वा । प्रऽतरम् । नवीय: । य: । त्वा । जघान । वध्य: । स: । अस्तु । मा । स: । अन्यत् । विदत । भागऽधेयम् ॥२.३१॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 31
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३१−(अश्वावतीम्) मन्त्रे सोमाश्वेन्द्रिय०। पा० ६।३।१३१। इतिमतौ दीर्घः। अश्वक्रियायुक्तां शक्तिम् (प्र तर) वर्धय (या) शक्तिः (सुशेवा)सुसुखा (ऋक्षाकम्) ऋक्ष हिंसायाम्-अच्, टाप्+कष वधे-ड। हिंसानाशकम् (वा) अवधारणे (प्रतरम्) प्रकृष्टतरम् (नवीयः) नवीनतरं स्थानम् (यः) दुराचारी (त्वा) त्वांसदाचारिणम् (जघान) हतवान् दुःखं प्रापितवान् (वध्यः) वधार्हः (सः) दुराचारी (अस्तु) (मा विदत) विद्लृ लाभे-लुङ्। मा लभताम् (सः) (अन्यत्) वधाद् भिन्नम् (भागधेयम्) भागम् ॥
इस भाष्य को एडिट करें