Loading...

2847 परिणाम मिले!

  • अयं ते कृत्यां विततां पौरुषेयादयं भयात्। अयं त्वा सर्वस्मात्पापाद्वरणो वारयिष्यते ॥ - Atharvaveda/10/3/0/4
  • अयं ते मानुषे जने सोम: पूरुषु सूयते । तस्येहि प्र द्रवा पिब ॥ - Rigveda/8/64/10
  • अयं ते योनिरृत्वियो यतो जातो अरोचथाः। तं जानन्नग्न आ रोहाथा नो वर्धया रयिम् ॥ - Atharvaveda/3/20/0/1
  • अयं ते योनिर्ऋत्वियो यतो जातो अरोचथाः। तं जानन्नग्न आ सीदाथा नो वर्धया गिरः॥ - Rigveda/3/29/10
  • अयं ते शर्यणावति सुषोमायामधि प्रियः । आर्जीकीये मदिन्तमः ॥ - Rigveda/8/64/11
  • अयं ते स्तोमो अग्रियो हृदिस्पृगस्तु शंतमः। अथा सोमं सुतं पिब॥ - Rigveda/1/16/7
  • अयं दक्षाय साधनोऽयं शर्धाय वीतये । अयं देवेभ्यो मधुमत्तमः सुतः ॥ - Rigveda/9/105/3
  • अयं दक्षाय साधनोऽयꣳ शर्धाय वीतये । अयं देवेभ्यो मधुमत्तरः सुतः ॥११००॥ - Samveda/1100
  • अयं दर्भो विमन्युकः स्वाय चारणाय च। मन्योर्विमन्युकस्यायं मन्युशमन उच्यते ॥ - Atharvaveda/6/43/0/1
  • अयं दशस्यन्नर्येभिरस्य दस्मो देवेभिर्वरुणो न मायी । अयं कनीन ऋतुपा अवेद्यमिमीताररुं यश्चतुष्पात् ॥ - Rigveda/10/99/10
  • अयं दिव इयर्ति विश्वमा रज: सोम: पुनानः कलशेषु सीदति । अद्भिर्गोभिर्मृज्यते अद्रिभिः सुतः पुनान इन्दुर्वरिवो विदत्प्रियम् ॥ - Rigveda/9/68/9
  • अयं दीर्घाय चक्षसे प्राचि प्रयत्यध्वरे । मिमीते यज्ञमानुषग्विचक्ष्य ॥ - Rigveda/8/13/30
  • अयं देवः सहसा जायमान इन्द्रेण युजा पणिमस्तभायत्। अयं स्वस्य पितुरायुधानीन्दुरमुष्णादशिवस्य मायाः ॥२२॥ - Rigveda/6/44/22
  • अयं देवा इहैवास्त्वयं मामुत्र गादितः। इमं सहस्रवीर्येण मृत्योरुत्पारयामसि ॥ - Atharvaveda/8/1/0/18
  • अयं देवानामपसामपस्तमो यो जजान रोदसी विश्वशम्भुवा। वि यो ममे रजसी सुक्रतूययाजरेभि: स्कम्भनेभि: समानृचे ॥ - Rigveda/1/160/4
  • अयं देवानामसुरो वि राजति वशा हि सत्या वरुणस्य राज्ञः। ततस्परि ब्रह्मणा शाशदान उग्रस्य मन्योरुदिमं नयामि ॥ - Atharvaveda/1/10/0/1
  • अयं देवाय जन्मने स्तोमो विप्रेभिरासया। अकारि रत्नधातमः॥ - Rigveda/1/20/1
  • अयं देवेषु जागृविः सुत एति पवित्र आ । सोमो याति विचर्षणिः ॥ - Rigveda/9/44/3
  • अयं द्यावापृथिवी वि ष्कभायदयं रथमयुनक्सप्तरश्मिम्। अयं गोषु शच्या पक्वमन्तः सोमो दाधार दशयन्त्रमुत्सम् ॥२४॥ - Rigveda/6/44/24
  • अयं द्योतयदद्युतो व्य१क्तून्दोषा वस्तोः शरद इन्दुरिन्द्र। इमं केतुमदधुर्नू चिदह्नां शुचिजन्मन उषसश्चकार ॥३॥ - Rigveda/6/39/3
  • अयं नाभा वदति वल्गु वो गृहे देवपुत्रा ऋषयस्तच्छृणोतन । सुब्रह्मण्यमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥ - Rigveda/10/62/4
  • अयं निधिः सरमे अद्रिबुध्नो गोभिरश्वेभिर्वसुभिर्न्यृष्टः । रक्षन्ति तं पणयो ये सुगोपा रेकु पदमलकमा जगन्थ ॥ - Rigveda/10/108/7
  • अयं नो नभसस्पतिः संस्फानो अभि रक्षतु। असमातिं गृहेषु नः ॥ - Atharvaveda/6/79/0/1
  • अयं नो विद्वान्वनवद्वनुष्यत इन्दु: सत्राचा मनसा पुरुष्टुतः । इनस्य यः सदने गर्भमादधे गवामुरुब्जमभ्यर्षति व्रजम् ॥ - Rigveda/9/77/4
  • अयं पन्था अनुवित्तः पुराणो यतो देवा उदजायन्त विश्वे। अतश्चिदा जनिषीष्ट प्रवृद्धो मा मातरममुया पत्तवे कः ॥१॥ - Rigveda/4/18/1
  • अयं पन्थाः कृत्य इति त्वा नयामोऽभिप्रहितां प्रति त्वा प्र हिण्मः। तेनाभि याहि भञ्जत्यनस्वतीव वाहिनी विश्वरूपा कुरूटिनी ॥ - Atharvaveda/10/1/0/15
  • अयं पिपान इन्द्र इद्रयिं दधातु चेतनीम्। अयं धेनुं सुदुघां नित्यवत्सां वशं दुहां विपश्चितं परो दिवः ॥ - Atharvaveda/9/4/0/21
  • अयं पुनान उषसो अरोचयदयꣳ सिन्धुभ्यो अभवदु लोककृत् । अयं त्रिः सप्त दुदुहान आशिरꣳ सोमो हृदे पवते चारु मत्सरः ॥८२३॥ - Samveda/823
  • अयं पुनान उषसो वि रोचयदयं सिन्धुभ्यो अभवदु लोककृत् । अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः ॥ - Rigveda/9/86/21
  • अयं पूषा रयिर्भगः सोमः पुनानो अर्षति । पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे ॥५४६॥ - Samveda/546
  • अयं पूषा रयिर्भगः सोमः पुनानो अर्षति । पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे ॥८१८॥ - Samveda/818
  • अयं पूषा रयिर्भग: सोम: पुनानो अर्षति । पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे ॥ - Rigveda/9/101/7
  • अयं प्रतिसरो मणिर्वीरो वीराय बध्यते। वीर्यवान्त्सपत्नहा शूरवीरः परिपाणः सुमङ्गलः ॥ - Atharvaveda/8/5/0/1
  • अयं भराय सानसिरिन्द्राय पवते सुतः । सोमो जैत्रस्य चेतति यथा विदे ॥ - Rigveda/9/106/2
  • अयं भराय सानसिरिन्द्राय पवते सुतः । सोमो जैत्रस्य चेतति यथा विदे ॥६९५॥ - Samveda/695
  • अयं मणिः सपत्नहा सुवीरः सहस्वान्वाजी सहमान उग्रः। प्रत्यक्कृत्या दूषयन्नेति वीरः ॥ - Atharvaveda/8/5/0/2
  • अयं मणिर्वरणो विश्वभेषजः सहस्राक्षो हरितो हिरण्ययः। स ते शत्रूनधरान्पादयाति पूर्वस्तान्दभ्नुहि ये त्वा द्विषन्ति ॥ - Atharvaveda/10/3/0/3
  • अयं मतवाञ्छकुनो यथा हितोऽव्ये ससार पवमान ऊर्मिणा । तव क्रत्वा रोदसी अन्तरा कवे शुचिर्धिया पवते सोम इन्द्र ते ॥ - Rigveda/9/86/13
  • अयं मातायं पितायं जीवातुरागमत् । इदं तव प्रसर्पणं सुबन्धवेहि निरिहि ॥ - Rigveda/10/60/7
  • अयं मित्रस्य वरुणस्य धायसेऽवयातां मरुतां हेळो अद्भुतः। मृळा सु नो भूत्वेषां मन: पुनरग्ने सख्ये मा रिषामा वयं तव ॥ - Rigveda/1/94/12
  • अयं मित्राय वरुणाय शंतम: सोमो भूत्ववपानेष्वाभगो देवो देवेष्वाभगः। तं देवासो जुषेरत विश्वे अद्य सजोषसः। तथा राजाना करथो यदीमह ऋतावाना यदीमहे ॥ - Rigveda/1/136/4
  • अयं मित्रो नमस्यः सुशेवो राजा सुक्षत्रो अजनिष्ट वेधाः। तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम॥ - Rigveda/3/59/4
  • अयं मे पीत उदियर्ति वाचमयं मनीषामुशतीमजीगः। अयं षळुर्वीरमिमीत धीरो न याभ्यो भुवनं कच्चनारे ॥३॥ - Rigveda/6/47/3
  • अयं मे वरण उरसि राजा देवो वनस्पतिः। स मे शत्रून्वि बाधतामिन्द्रो दस्यूनिवासुरान् ॥ - Atharvaveda/10/3/0/11
  • अयं मे वरणो मणिः सपत्नक्षयणो वृषा। तेना रभस्व त्वं शत्रून्प्र मृणीहि दुरस्यतः ॥ - Atharvaveda/10/3/0/1
  • अयं मे हस्तो भगवानयं मे भगवत्तरः । अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः ॥ - Rigveda/10/60/12
  • अयं मे हस्तो भगवानयं मे भगवत्तरः। अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः ॥ - Atharvaveda/4/13/0/6
  • अयं यः सृञ्जये पुरो दैववाते समिध्यते। द्युमाँ अमित्रदम्भनः ॥४॥ - Rigveda/4/15/4
  • अयं यज्ञो देवया अयं मियेध इमा ब्रह्माण्ययमिन्द्र सोम:। स्तीर्णं बर्हिरा तु शक्र प्र याहि पिबा निषद्य वि मुचा हरी इह ॥ - Rigveda/1/177/4
  • अयं यथा न आभुवत्त्वष्टा रूपेव तक्ष्या । अस्य क्रत्वा यशस्वतः ॥ - Rigveda/8/102/8
Top