अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 12
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - जगती
सूक्तम् - अध्यात्म प्रकरण सूक्त
स॒हस्र॑शृङ्गो वृष॒भो जा॒तवे॑दा घृ॒ताहु॑तः॒ सोम॑पृष्ठः सु॒वीरः॑। मा मा॑ हासीन्नाथि॒तो नेत्त्वा॒ जहा॑नि गोपो॒षं च॑ मे वीरपो॒षं च॑ धेहि ॥
स्वर सहित पद पाठस॒हस्र॑ऽशृङ्ग: । वृ॒ष॒भ: । जा॒तऽवे॑दा: । घृ॒तऽआ॑हुत: । सोम॑ऽपृष्ठ: । सु॒ऽवीर॑: । मा । मा॒ । हा॒सी॒त् । ना॒थि॒त: । न । इत् । त्वा॒ । जहा॑नि । गो॒ऽपो॒षम् । च॒ । मे॒ । वी॒र॒ऽपो॒षम् । च॒ । धे॒हि॒ ॥१.१२॥
स्वर रहित मन्त्र
सहस्रशृङ्गो वृषभो जातवेदा घृताहुतः सोमपृष्ठः सुवीरः। मा मा हासीन्नाथितो नेत्त्वा जहानि गोपोषं च मे वीरपोषं च धेहि ॥
स्वर रहित पद पाठसहस्रऽशृङ्ग: । वृषभ: । जातऽवेदा: । घृतऽआहुत: । सोमऽपृष्ठ: । सुऽवीर: । मा । मा । हासीत् । नाथित: । न । इत् । त्वा । जहानि । गोऽपोषम् । च । मे । वीरऽपोषम् । च । धेहि ॥१.१२॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 12
विषय - जीवात्मा और परमात्मा का उपदेश।
पदार्थ -
(सहस्रशृङ्गः) बड़े तेजवाला, (वृषभः) महाशक्तिमान्, (जातवेदाः) वेदों का उत्पन्न करनेवाला, (घृताहुतः) प्रकाश का देनेवाला, (सोमपृष्ठः) ऐश्वर्य का सींचनेवाला, (सुवीरः) बड़ा वीर (नाथितः) प्रार्थना किया गया [परमेश्वर] (मा) मुझको (मा हासीत्) न छोड़े। (त्वा) तुझको (न इत्) कभी नहीं (जहानि) मैं छोड़ूँ, (मे) मुझको (गोपोषम्) विद्याओं की वृद्धि (च च) और (वीरपोषम्) वीरों की पुष्टि (धेहि) दान कर ॥१२॥
भावार्थ - मनुष्य उस महातेजस्वी, सर्वशक्तिमान् जगदीश्वर की उपासना से अपने ज्ञानों और वीरों की वृद्धि करें ॥१२॥
टिप्पणी -
१२−(सहस्रशृङ्गः) अ० ४।५।१। बहुतेजाः (वृषभः) महाशक्तिमान् (जातवेदाः) जातानि उत्पन्नानि वेदांसि वेदा यस्मात् सः (घृताहुतः) प्रकाशप्रदः (सोमपृष्ठः) ऐश्वर्यसेचकः (सुवीरः) महाशूरः (मा) माम् (मा हासीत्) न त्यजतु (नाथितः) प्रार्थितः (नेत्) नैव (त्वा) (जहानि) त्यजानि (गोपोषम्) गवानां विद्यानां वृद्धिम् (च) (मे) मह्यम् (वीरपोषम्) शूराणां पोषणम् (च) (धेहि) देहि ॥