अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 38
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - त्रिष्टुप्
सूक्तम् - अध्यात्म प्रकरण सूक्त
य॒शा या॑सि प्र॒दिशो॒ दिश॑श्च य॒शाः प॑शू॒नामु॒त च॑र्षणी॒नाम्। य॒शाः पृ॑थि॒व्या अदि॑त्या उ॒पस्थे॒ऽहं भू॑यासं सवि॒तेव॒ चारुः॑ ॥
स्वर सहित पद पाठय॒शा: । या॒सि॒ । प्र॒ऽदिश॑: । दिश॑: ।च॒ । य॒शा: । प॒शू॒नाम् । उ॒त । च॒र्ष॒णी॒नाम् । य॒शा: । पृ॒थि॒व्या: । अदि॑त्या: । उ॒पऽस्थे॑ । भू॒या॒स॒म् । स॒वि॒ताऽइ॑व । चारु॑: ॥१.३८॥
स्वर रहित मन्त्र
यशा यासि प्रदिशो दिशश्च यशाः पशूनामुत चर्षणीनाम्। यशाः पृथिव्या अदित्या उपस्थेऽहं भूयासं सवितेव चारुः ॥
स्वर रहित पद पाठयशा: । यासि । प्रऽदिश: । दिश: ।च । यशा: । पशूनाम् । उत । चर्षणीनाम् । यशा: । पृथिव्या: । अदित्या: । उपऽस्थे । भूयासम् । सविताऽइव । चारु: ॥१.३८॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 38
विषय - जीवात्मा और परमात्मा का उपदेश।
पदार्थ -
[हे परमेश्वर !] (यशाः) यशस्वी तू (प्रदिशः) बड़ी दिशाओं (च) और (दिशः) मध्य दिशाओं में (यासि) चलता है, और तू (पशूनाम्) पशुओं [गौ सिंह आदिकों] (उत) और (चर्षणीनाम्) मनुष्यों में (यशाः) यशस्वी है। (अहम्) मैं (पृथिव्याः) पृथिवी की ओर (आदित्याः) अखण्ड वेदवाणी की (उपस्थे) गोद में (यशाः) यशस्वी होकर (सविता इव) सबके चलानेवाले शूर [अथवा सूर्य] के समान (चारुः) शोभायमान (भूयासम्) होऊँ ॥३८॥
भावार्थ - जैसे परमेश्वर अपनी महिमा से समस्त लोकों का राजा है, वैसे ही मनुष्य ईश्वर की उपासना से पृथिवी पर प्रिय होकर अपनी उन्नति करते रहें ॥३८॥
टिप्पणी -
३८−(यशाः) अ० ६।३९।३। सुप आत्मनः क्यच्। पा० ३।१।८। यशस्-क्यच्, ततः क्विप्, अलोपयलोपौ। यशस्कामः। यशस्वी (यासि) गच्छसि (प्रदिशः) प्रकृष्टा दिशाः (दिशः) अन्तर्दिशाः (च) समुच्चये (यशाः) (पशूनाम्) गवादीनाम् (उत) अपि (चर्षणीनाम्) मनुष्याणाम् (यशाः) (पृथिव्याः) (अदित्याः) अदितिर्वाङ्नाम-निघ० १।११। अखण्डिताया वेदवाण्याः (उपस्थे) क्रोडे (अहम्) उपासकः (भूयासम्) (सविता इव) सर्वप्रेरकः शूरः सूर्यो वा यथा (चारुः) शोभायमानः ॥