अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 16
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म प्रकरण सूक्त
अ॒यं व॑स्ते॒ गर्भं॑ पृथि॒व्या दिवं॑ वस्ते॒ऽयम॒न्तरि॑क्षम्। अ॒यं ब्र॒ध्नस्य॑ वि॒ष्टपि॒ स्वर्लो॒कान्व्यानशे ॥
स्वर सहित पद पाठअ॒यम् । व॒स्ते॒ । गर्भ॑म् । पृ॒थि॒व्या: । दिव॑म् । व॒स्ते॒ । अ॒यम् । अ॒न्तरि॑क्षम् । अ॒यम् । ब्र॒ध्नस्य॑ । वि॒ष्टपि॑ । स्व᳡: । लो॒कान् । वि। आ॒न॒शे॒ ॥१.१६॥
स्वर रहित मन्त्र
अयं वस्ते गर्भं पृथिव्या दिवं वस्तेऽयमन्तरिक्षम्। अयं ब्रध्नस्य विष्टपि स्वर्लोकान्व्यानशे ॥
स्वर रहित पद पाठअयम् । वस्ते । गर्भम् । पृथिव्या: । दिवम् । वस्ते । अयम् । अन्तरिक्षम् । अयम् । ब्रध्नस्य । विष्टपि । स्व: । लोकान् । वि। आनशे ॥१.१६॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 16
विषय - जीवात्मा और परमात्मा का उपदेश।
पदार्थ -
(अयम्) यह [परमेश्वर] (पृथिव्याः) पृथिवी के (गर्भम्) गर्भ [उदर] को (वस्ते) ढकता है, (अयम्) यह (दिवम्) आकाश और (अन्तरिक्षम्) अन्तरिक्ष को (वस्ते) ढकता है। (अयम्) यह (ब्रध्नस्य) नियम के (विष्टपि) आश्रय पर (स्वः) सुख से (लोकान्) लोकों में (वि आनशे) व्यापा है ॥१६॥
भावार्थ - जो परमेश्वर पृथिवी आदि की सीमा के परिमाण से अधिक बड़ा है, मनुष्य उसकी उपासना से अपनी वृद्धि करके आनन्द पावें ॥१६॥
टिप्पणी -
१६−(अयम्) व्यापकः परमेश्वरः (वस्ते) आच्छादयति (गर्भम्) उदरम् (पृथिव्याः) भूमेः (दिवम्) आकाशम् (वस्ते) (अयम्) (अन्तरिक्षम्) (अयम्) (ब्रध्नस्य) अ० १०।१०।३१। बन्ध बन्धने-नक्, ब्रधादेशः। नियमस्य (विष्टपि) वि+ष्टभि प्रतिबन्धे-क्विप्, भस्य पः। आश्रये (स्वः) सुखेन (लोकान्) (वि आनशे) अशू व्याप्तौ-लिट्। व्याप्तवान् ॥