अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 33
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - त्रिष्टुप्
सूक्तम् - अध्यात्म प्रकरण सूक्त
व॒त्सो वि॒राजो॑ वृष॒भो म॑ती॒नामा रु॑रोह शु॒क्रपृ॑ष्ठो॒ऽन्तरि॑क्षम्। घृ॒तेना॒र्कम॒भ्यर्चन्ति व॒त्सं ब्रह्म॒ सन्तं॒ ब्रह्म॑णा वर्धयन्ति ॥
स्वर सहित पद पाठव॒त्स: । वि॒ऽराज॑: । वृ॒ष॒भ: । म॒ती॒नाम् । आ । रु॒रो॒ह॒ । शु॒क्रऽपृ॑ष्ठ: । अ॒न्तरि॑क्षम् । घृ॒तेन॑ । अ॒र्कम् । अ॒भि । अ॒र्च॒न्ति॒ । व॒त्सम् । ब्रह्म॑ । सन्त॑म् । ब्रह्म॑णा । व॒र्ध॒य॒न्ति॒ ॥१.३३॥
स्वर रहित मन्त्र
वत्सो विराजो वृषभो मतीनामा रुरोह शुक्रपृष्ठोऽन्तरिक्षम्। घृतेनार्कमभ्यर्चन्ति वत्सं ब्रह्म सन्तं ब्रह्मणा वर्धयन्ति ॥
स्वर रहित पद पाठवत्स: । विऽराज: । वृषभ: । मतीनाम् । आ । रुरोह । शुक्रऽपृष्ठ: । अन्तरिक्षम् । घृतेन । अर्कम् । अभि । अर्चन्ति । वत्सम् । ब्रह्म । सन्तम् । ब्रह्मणा । वर्धयन्ति ॥१.३३॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 33
विषय - जीवात्मा और परमात्मा का उपदेश।
पदार्थ -
(वत्सः) उपदेश करनेवाला, (विराजः) बड़े ऐश्वर्यवाला, (शुक्रपृष्ठः) वीरता बढ़ानेवाला (वृषभः) बड़ी शक्तिवाला [पुरुष] (मतीनाम्) बुद्धिमानों के (अन्तरिक्षम्) मध्यवर्ती दृश्य पर (आ रुरोह) ऊँचा हुआ है। वे [बुद्धिमान् लोग] (घृतेन) प्रकाश के साथ [वर्तमान] (अर्कम्) पूजनीय, (वत्सम्) उपदेश करनेवाले [परमेश्वर] को (अभि) सब ओर से (अर्चन्ति) पूजते हैं और (सन्तम्) सेवनीय (ब्रह्म) ब्रह्म [सबसे बड़े परमेश्वर] को (ब्रह्मणा) वेद द्वारा (वर्धयन्ति) बढ़ाते हैं [सराहते हैं] ॥३३॥
भावार्थ - जिस परमेश्वर ने बड़े-बड़े पराक्रमी शूर वीर पुरुष बनाये हैं, उसकी महिमा को ज्ञानी लोग जानकर संसार में प्रकट करते हैं ॥३३॥
टिप्पणी -
३३−(वत्सः) वद कथने स प्रत्ययः। उपदेशकः (विराजः) राजाहःसखिभ्यष्टच्। पा० ५।४।९१। विराजन्-टच्, तत्पुरुषे। विविधैश्वर्यवान् (वृषभः) शक्तिमान् (मतीनाम्) मतयो मेधाविनः-निघ० ३।१५। मेधाविनां मध्ये (आरुरोह) आरूढवान् (शुक्रपृष्ठः) शुक्रस्य वीर्यस्य पराक्रमस्य पृष्ठं सेचनं यस्मात् सः (अन्तरिक्षम्) अन्तर् मध्ये ईक्ष्यमाणं दृश्यमानं पदम् (घृतेन) प्रकाशेन सह (अर्कम्) अर्को देवो भवति यदेनमर्चन्ति-निरु० ५।४। अर्चनीयम् (अभि) अभितः (अर्चन्ति) पूजयन्ति (वत्सम्) उपदेशकम् (ब्रह्म) प्रवृद्धं परमात्मानम् (सन्तम्) हसिमृग्रिण्वामि०। उ० ३।८६। षण संभक्तौ-तन्। सेवनीयम् (ब्रह्मणा) वेदज्ञानेन (वर्धयन्ति) स्तुवन्ति ॥