अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 19
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - पञ्चपदा परातिजागता ककुम्मत्यतिजगती
सूक्तम् - अध्यात्म प्रकरण सूक्त
वाच॑स्पते सौमन॒सं मन॑श्च गो॒ष्ठे नो॒ गा ज॒नय॒ योनि॑षु प्र॒जाः। इ॒हैव प्रा॒णः स॒ख्ये नो॑ अस्तु॒ तं त्वा॑ परमेष्ठि॒न्पर्य॒हमायु॑षा॒ वर्च॑सा दधामि ॥
स्वर सहित पद पाठवाच॑: । प॒ते॒ । सौ॒म॒न॒सम् । मन॑: । च॒ । गो॒ऽस्थे । न॒: । गा: । ज॒नय॑ । योनि॑षु । प्र॒ऽजा: । इ॒ह । ए॒व । प्रा॒ण: । स॒ख्ये । न॒: । अ॒स्तु॒ । तम् । त्वा॒ । प॒र॒मे॒ऽस्थि॒न् । परि॑ । अ॒हम् । आयु॑षा । वर्च॑सा । द॒धा॒मि॒ ॥१.१९॥
स्वर रहित मन्त्र
वाचस्पते सौमनसं मनश्च गोष्ठे नो गा जनय योनिषु प्रजाः। इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन्पर्यहमायुषा वर्चसा दधामि ॥
स्वर रहित पद पाठवाच: । पते । सौमनसम् । मन: । च । गोऽस्थे । न: । गा: । जनय । योनिषु । प्रऽजा: । इह । एव । प्राण: । सख्ये । न: । अस्तु । तम् । त्वा । परमेऽस्थिन् । परि । अहम् । आयुषा । वर्चसा । दधामि ॥१.१९॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 19
विषय - जीवात्मा और परमात्मा का उपदेश।
पदार्थ -
(वाचः पते) हे वेदवाणी के स्वामी [परमेश्वर !] (सौमनसम्) शुभचिन्तकता, (मनः) मनन, (गाः) वाणियों [नीतियों] (च) और (प्रजाः) प्रजाओं [पुत्र, पौत्र, राज्यजनों] को (नः) हमारी (गोष्ठे) गोष्ठ [बातों के स्थान] में और (योनिषु) घरों में (जनय) उत्पन्न कर। (इइ एव) यहाँ ही [इसी मनुष्यजन्म में] (प्राणः) प्राण [जीवन, वायु] (नः) हमारी (सख्ये) मित्रता में (अस्तु) होवे, (परमेष्ठिन्) हे बड़े ऊँचे पदवाले [परमेश्वर !] (तम् त्वा) उस तुझको (अहम्) मैं [मनुष्य] (आयुषा) आयु के साथ और (वर्चसा) प्रताप के साथ (परि) सब ओर से (दधामि) धारण करता हूँ ॥१९॥
भावार्थ - जो मनुष्य परमेश्वर की वेदोक्त आज्ञा पर चल कर अपनी सभा और घर को सुनीतिज्ञ बना कर परस्पर हित करते हैं, वे ही संसार में यशस्वी होते हैं ॥१९॥
टिप्पणी -
१९−(सौमनसम्) शुभचिन्तकत्वम् (मनः) मननम् (च) (गोष्ठे) वाचालये (नः) अस्माकम् (गाः) वाणीः। नीतीः। (जनय) उत्पादय (योनिषु) गृहेषु (प्रजाः) पुत्रपौत्रराज्यजनान् (अहम्) मनुष्यः (दधामि) स्थापयामि। अन्यत् पूर्ववत् म० १७ ॥