अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 54
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म प्रकरण सूक्त
गी॒र्भिरू॒र्ध्वान्क॑ल्पयि॒त्वा रोहि॑तो॒ भूमि॑मब्रवीत्। त्वयी॒दं सर्वं॑ जायतां॒ यद्भू॒तं यच्च॑ भा॒व्यम् ॥
स्वर सहित पद पाठगी॒ऽभि: । ऊ॒र्ध्वान् । क॒ल्प॒यि॒त्वा। रोहि॑त: । भूमि॑म् । अ॒ब्र॒वी॒त् । त्वयि॑ । इ॒दम् । सर्व॑म् । जा॒य॒ता॒म् । यत् । भू॒तम् । यत् । च॒ । भा॒व्य᳡म् ॥१.५४॥
स्वर रहित मन्त्र
गीर्भिरूर्ध्वान्कल्पयित्वा रोहितो भूमिमब्रवीत्। त्वयीदं सर्वं जायतां यद्भूतं यच्च भाव्यम् ॥
स्वर रहित पद पाठगीऽभि: । ऊर्ध्वान् । कल्पयित्वा। रोहित: । भूमिम् । अब्रवीत् । त्वयि । इदम् । सर्वम् । जायताम् । यत् । भूतम् । यत् । च । भाव्यम् ॥१.५४॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 54
विषय - जीवात्मा और परमात्मा का उपदेश।
पदार्थ -
(गीर्भिः) वेदवाणियों द्वारा (ऊर्ध्वान्) ऊँचे-ऊँचे पहाड़ों को (कल्पयित्वा) रचकर (रोहितः) सबका उत्पन्न करनेवाला परमेश्वर (भूमिम्) भूमि से (अब्रवीत्) बोला−“(त्वयि) तुझ पर (इदम् सर्वम्) यह सब (जायताम्) उत्पन्न होवे, (यत्) जो कुछ (भूतम्) उत्पन्न है, (च) और (यत्) जो कुछ (भाव्यम्) उत्पन्न होनेवाला है” ॥५४॥
भावार्थ - परमेश्वर ने अपने नित्य वेदज्ञान द्वारा सब पर्वत आदि बनाकर सृष्टि के निवास के लिये भूमि को बनाया ॥५४॥
टिप्पणी -
५४−(गीर्भिः) वेदवाग्भिः (ऊर्ध्वान्) उन्नतान् पर्वतान् (कल्पयित्वा) सृष्ट्वा (रोहितः) परमेश्वरः (भूमिम्) (अब्रवीत्) अवदत् (त्वयि) भूम्याम् (इदम्) प्रत्यक्षम् (सर्वम्) (जायताम्) उत्पद्यताम् (यत्) (भूतम्) उत्पन्नं वर्तते (यत्) (च) (भाव्यम्) भवतेर्ण्यत्। उत्पत्स्यमानम् ॥