अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 58
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - त्रिष्टुप्
सूक्तम् - अध्यात्म प्रकरण सूक्त
यो अ॒द्य दे॑व सूर्य॒ त्वां च॒ मां चा॑न्त॒राय॑ति। दुः॒ष्वप्न्यं॒ तस्मि॒ञ्छम॑लं दुरि॒तानि॑ च मृज्महे ॥
स्वर सहित पद पाठय: । अ॒द्य । दे॒व॒ । सू॒र्य॒ त्वाम् । च॒ । माम् । च॒ । अ॒न्त॒रा । अय॒ति । दु॒:ऽस्वप्न्य॑म् । तस्मि॑न् । शम॑लम् । दु॒:ऽइ॒तानि॑। च॒ । मृ॒ज्म॒हे॒ ॥१.५८॥
स्वर रहित मन्त्र
यो अद्य देव सूर्य त्वां च मां चान्तरायति। दुःष्वप्न्यं तस्मिञ्छमलं दुरितानि च मृज्महे ॥
स्वर रहित पद पाठय: । अद्य । देव । सूर्य त्वाम् । च । माम् । च । अन्तरा । अयति । दु:ऽस्वप्न्यम् । तस्मिन् । शमलम् । दु:ऽइतानि। च । मृज्महे ॥१.५८॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 58
विषय - जीवात्मा और परमात्मा का उपदेश।
पदार्थ -
(देव) हे प्रकाशमान ! (सूर्य) सूर्य [सूर्यसमान तेजस्वी विद्वान् !] (यः) जो कोई [शत्रु] (अद्य) आज (त्वाम्) तेरे (च च) और (माम् अन्तरा) मेरे बीच (अयति) चले। (तस्मिन्) उस विषय में [आये हुए] (दुःष्वप्न्यम्) बुरे स्वप्न, (शमलम्) मलिन व्यवहार (च) और (दुरितानि) दुर्गतियों को (मृज्महे) हम शुद्ध करते हैं ॥५८॥
भावार्थ - जो मनुष्य दुष्टता के कारण शुभ गुणों के प्रकाशों को रोके, विद्वान् लोग उन सब विघ्नों को हटाने के लिये प्रयत्न करें ॥५८॥
टिप्पणी -
५८−(यः) शत्रुः (अद्य) अस्मिन् दिने (देव) हे प्रकाशमान (सूर्य) आदित्यवत्तेजस्विन् विद्वन् (त्वाम्) (च) (माम्) (च) (अन्तरा) मध्ये (अयति) गच्छति (दुःष्वप्न्यम्) दुष्टस्वप्नम् (तस्मिन्) पूर्वोक्ते विषये (शमलम्) भ्रष्टव्यवहारम् (दुरितानि) कष्टानि (च) (मृज्महे) शोधयामः ॥