अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 52
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - अध्यात्म प्रकरण सूक्त
वेदिं॒ भूमिं॑ कल्पयि॒त्वा दिवं॑ कृ॒त्वा दक्षि॑णाम्। घ्रं॒सं तद॒ग्निं कृ॒त्वा च॒कार॒ विश्व॑मात्म॒न्वद्व॒र्षेणाज्ये॑न॒ रोहि॑तः ॥
स्वर सहित पद पाठवेदि॑म् । भूमि॑म् । क॒ल्प॒यि॒त्वा । दिव॑म् । कृ॒त्वा । दक्षि॑णाम् । घ्रं॒सम् । तत् । अ॒ग्निम् । कृ॒त्वा । च॒कार॑ । विश्व॑म् । आ॒त्म॒न्ऽवत् । व॒र्षेण॑ । आज्ये॑न। रोहि॑त: ॥१.५२॥
स्वर रहित मन्त्र
वेदिं भूमिं कल्पयित्वा दिवं कृत्वा दक्षिणाम्। घ्रंसं तदग्निं कृत्वा चकार विश्वमात्मन्वद्वर्षेणाज्येन रोहितः ॥
स्वर रहित पद पाठवेदिम् । भूमिम् । कल्पयित्वा । दिवम् । कृत्वा । दक्षिणाम् । घ्रंसम् । तत् । अग्निम् । कृत्वा । चकार । विश्वम् । आत्मन्ऽवत् । वर्षेण । आज्येन। रोहित: ॥१.५२॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 52
विषय - जीवात्मा और परमात्मा का उपदेश।
पदार्थ -
(भूमिम्) भूमि को (वेदिम्) वेदि [यज्ञकुण्ड] रूप (कल्पयित्वा) रचकर, (दिवम्) आकाश को (दक्षिणाम्) दक्षिणा [प्रतिष्ठा का दान] रूप (कृत्वा) बनाकर, (तत्) फिर (अग्निम्) अग्नि को (घ्रंसम्) तापरूप (कृत्वा) सिरजकर, (रोहितः) सबके उत्पन्न करनेवाले [परमेश्वर] ने (वर्षेण) वृष्टिरूप (आज्येन) घी से (आत्मन्वत्) आत्मावाला (विश्वम्) सब जगत् (चकार) बनाया ॥५२॥
भावार्थ - परमात्मा ने भूमि, आकाश आदि आधार और अग्नि आदि पदार्थ बनाकर सब जगत् को आत्मबल देकर पुरुषार्थी बनाया है। उसी सर्वशक्तिमान् की भक्ति से पुरुषार्थी मनुष्य उच्च पद पावें ॥५२॥
टिप्पणी -
५२−(वेदिम्) यज्ञकुण्डं यथा (भूमिम्) (कल्पयित्वा) रचयित्वा (दिवम्) आकाशम् (कृत्वा) विधाय (दक्षिणाम्) प्रतिष्ठादानं यथा (घ्रंसम्) म० ४६। तापं यथा (तत्) तदा (अग्निम्) सूर्यादिकम् (कृत्वा) (चकार) रचयामास (विश्वम्) सर्वं जगत् (आत्मन्वत्) अ० ४।१०।७। सात्मकं स्थावरजङ्गमात्मकम् (वर्षेण) वृष्टिरूपेण (आज्येन) घृतेन (रोहितः) सर्वोत्पादकः परमेश्वरः ॥