अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 39
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म प्रकरण सूक्त
अ॒मुत्र॒ सन्नि॒ह वे॑त्थे॒तः संस्तानि॑ पश्यसि। इ॒तः प॑श्यन्ति रोच॒नं दि॒वि सूर्यं॑ विप॒श्चित॑म् ॥
स्वर सहित पद पाठअ॒मुत्र॑ । सन् । इ॒ह । वे॒त्थ॒ । इ॒त: । सन् । तानि॑ । प॒श्य॒सि॒ । इ॒त: । प॒श्य॒न्ति॒ । रो॒च॒नम् । दि॒वि । सूर्य॑म् । वि॒प॒:ऽचित॑म् ॥१.३९॥
स्वर रहित मन्त्र
अमुत्र सन्निह वेत्थेतः संस्तानि पश्यसि। इतः पश्यन्ति रोचनं दिवि सूर्यं विपश्चितम् ॥
स्वर रहित पद पाठअमुत्र । सन् । इह । वेत्थ । इत: । सन् । तानि । पश्यसि । इत: । पश्यन्ति । रोचनम् । दिवि । सूर्यम् । विप:ऽचितम् ॥१.३९॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 39
विषय - जीवात्मा और परमात्मा का उपदेश।
पदार्थ -
[हे परमेश्वर !] (अमुत्र) वहाँ पर (सन्) रहता हुआ तू (इह) यहाँ (वेत्थ) जानता है, (इतः) इधर (सन्) रहता हुआ (तानि) उन [वस्तुओं] को (पश्यसि) देखता है। (इतः) यहाँ से (दिवि) प्रत्येक व्यवहार में (रोचनम्) चमकनेवाले (विपश्चितम्) बुद्धिमान् (सूर्यम्) सबके चलानेवाले [परमेश्वर] को (पश्यन्ति) वे [विद्वान्] देखते हैं ॥३९॥
भावार्थ - परमेश्वर समीप और दूर से सर्वव्यापी होकर सर्वनियन्ता है, ऐसा विचार कर बुद्धिमान् लोग अपने व्यवहारों में उन्नति करते हैं ॥३९॥
टिप्पणी -
३९−(अमुत्र) तत्र। दूरदेशे (सन्) वर्तमानः सन् (इह) अत्र (वेत्थ) जानासि (इतः) अत्र (सन्) (तानि) दूरस्थानि वस्तूनि (पश्यसि) निरीक्षसे (इतः) (पश्यन्ति) अवलोकयन्ति (रोचनम्) प्रकाशमानम् (दिवि) प्रत्येकव्यवहारे (सूर्यम्) सर्वप्रेरकं परमेश्वरम् (विपश्चितम्) मेधाविनम्-निघ० ३।१५ ॥