अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 35
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - उपरिष्टाद्विराड्बृहती
सूक्तम् - अध्यात्म प्रकरण सूक्त
ये दे॒वा रा॑ष्ट्र॒भृतो॒ऽभितो॒ यन्ति॒ सूर्य॑म्। तैष्टे॒ रोहि॑तः संविदा॒नो रा॒ष्ट्रं द॑धातु सुमन॒स्यमा॑नः ॥
स्वर सहित पद पाठये । दे॒वा: । रा॒ष्ट्र॒ऽभृत॑: । अ॒भित॑: । यन्ति॑ । सूर्य॑म् । तै: । ते॒ । रोहि॑त: । स॒म्ऽवि॒दा॒न: । रा॒ष्ट्रम् । द॒धा॒तु॒ । सु॒ऽम॒न॒स्यमा॑न: ॥१.३५॥
स्वर रहित मन्त्र
ये देवा राष्ट्रभृतोऽभितो यन्ति सूर्यम्। तैष्टे रोहितः संविदानो राष्ट्रं दधातु सुमनस्यमानः ॥
स्वर रहित पद पाठये । देवा: । राष्ट्रऽभृत: । अभित: । यन्ति । सूर्यम् । तै: । ते । रोहित: । सम्ऽविदान: । राष्ट्रम् । दधातु । सुऽमनस्यमान: ॥१.३५॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 35
विषय - जीवात्मा और परमात्मा का उपदेश।
पदार्थ -
[हे राजन् !] (ये) जो (राष्ट्रभृतः) राज्यपोषक (देवाः) विजय चाहनेवाले पुरुष (सूर्यम्) सबके चलानेवाले [परमेश्वर] को (अभितः) सब ओर से (यन्ति) प्राप्त होते हैं। (तैः) उनसे (संविदानः) मिलता हुआ, (सुमनस्यमानः) प्रसन्नचित्त (रोहितः) सबका उत्पन्न करनेवाला [परमेश्वर] (ते) तेरे (राष्ट्रम्) राज्य को (दधातु) पुष्ट करे ॥३५॥
भावार्थ - जिस राज्य में विद्वान् लोग ईश्वर की आज्ञा का पालन करते हैं, वह राज्य सदा बढ़ता रहता है ॥३५॥
टिप्पणी -
३५−(ये) (देवाः) विजिगीषवः (राष्ट्रभृतः) राज्यपोषकाः (यन्ति) प्राप्नुवन्ति (सूर्यम्) सर्वप्रेरकं परमेश्वरम् (तैः) देवैः (ते) तव (रोहितः) सर्वोत्पादकः परमेश्वरः (संविदानः) संगच्छमानः (राष्ट्रम्) राज्यम् (दधातु) पुष्णातु (सुमनस्यमानः) शोभनमनाः ॥