अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 53
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म प्रकरण सूक्त
व॒र्षमाज्यं॑ घ्रं॒सो अ॒ग्निर्वेदि॒र्भूमि॑रकल्पत। तत्रै॒तान्पर्व॑तान॒ग्निर्गी॒र्भिरू॒र्ध्वाँ अ॑कल्पयत् ॥
स्वर सहित पद पाठव॒र्षम् । आज्य॑म् । घ्रं॒स: । अ॒ग्नि: । वेदि॑: । भूमि॑: । अ॒क॒ल्प॒त॒ । तत्र॑ । ए॒तान् । पर्व॑तान् । अ॒ग्नि: । गी॒:ऽभि: ऊ॒र्ध्वान् । अ॒क॒ल्प॒य॒त् ॥१.५३॥
स्वर रहित मन्त्र
वर्षमाज्यं घ्रंसो अग्निर्वेदिर्भूमिरकल्पत। तत्रैतान्पर्वतानग्निर्गीर्भिरूर्ध्वाँ अकल्पयत् ॥
स्वर रहित पद पाठवर्षम् । आज्यम् । घ्रंस: । अग्नि: । वेदि: । भूमि: । अकल्पत । तत्र । एतान् । पर्वतान् । अग्नि: । गी:ऽभि: ऊर्ध्वान् । अकल्पयत् ॥१.५३॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 53
विषय - जीवात्मा और परमात्मा का उपदेश।
पदार्थ -
(वर्षम्) वृष्टि (आज्यम्) घीरूप, (घ्रंसः) ताप (अग्निः) अग्निरूप, (भूमिः) भूमि (वेदिः) वेदिरूप (अकल्पत) बनाई गयी। (तत्र) उस [भूमि] पर (एतान् पर्वतान्) इन पर्वतों का (अग्निः) तेजःस्वरूप [परमेश्वर वा पार्थिव ताप] ने (गीर्भिः) वेदवाणियों द्वारा (ऊर्ध्वान्) ऊँचा (अकल्पयत्) बनाया ॥५३॥
भावार्थ - जैसे यज्ञ के लिये घृत आदि हव्य पदार्थ होते हैं, वैसे ही वृष्टि आदि बनाकर प्राणियों के सुख के लिये पार्थिव ताप द्वारा ईश्वरनियम से पहाड़ बने हैं ॥५३॥
टिप्पणी -
५३−(वर्षम्) वृष्टिः (आज्यम्) घृतं यथा (घ्रंसः) म० ४६। तापः (अग्निः) तेजोविशेषः (वेदिः) (भूमिः) (अकल्पत) अरच्यत (तत्र) भूमौ (एतान्) दृश्यमानान् (पर्वतान्) (अग्निः) तेजःस्वरूपः परमेश्वरः पार्थिवतापो वा (गीर्भिः) वेदवाणीभिः (ऊर्ध्वान्) उन्नतान् (अकल्पयत्) अकरोत् ॥