अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 44
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - परोष्णिक्
सूक्तम् - अध्यात्म प्रकरण सूक्त
वेद॒ तत्ते॑ अमर्त्य॒ यत्त॑ आ॒क्रम॑णं दि॒वि। यत्ते॑ स॒धस्थं॑ पर॒मे व्योमन् ॥
स्वर सहित पद पाठवेद॑ । तत् । ते॒ । अ॒म॒र्त्य॒ । यत् । ते॒ । आ॒ऽक्रम॑णम् । दि॒वि । यत् । ते॒ । स॒धऽस्थ॑म् । प॒र॒मे । विऽओ॑मन् ॥१.४४॥
स्वर रहित मन्त्र
वेद तत्ते अमर्त्य यत्त आक्रमणं दिवि। यत्ते सधस्थं परमे व्योमन् ॥
स्वर रहित पद पाठवेद । तत् । ते । अमर्त्य । यत् । ते । आऽक्रमणम् । दिवि । यत् । ते । सधऽस्थम् । परमे । विऽओमन् ॥१.४४॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 44
विषय - जीवात्मा और परमात्मा का उपदेश।
पदार्थ -
(अमर्त्य) हे अमर ! [अविनाशी परमेश्वर] (ते) तेरे (तत्) उस को (वेद) मैं जानता हूँ, (यत्) जो (ते) तेरा (आक्रमणम्) चढ़ाव [व्याप्ति] (दिवि) प्रत्येक व्यवहार में है और (यत्) जो (ते) तेरा (सधस्थम्) सह स्थान (परमे) सबसे बड़े (व्योमन्) विविध रक्षासाधन [मोक्ष पद] में है ॥४४॥
भावार्थ - योगी को योग्य है कि उस नित्य शुद्ध परमात्मा को प्रत्येक पदार्थ में साक्षात् करके मोक्षसुख प्राप्त करे ॥४४॥
टिप्पणी -
४४−(वेद) जानामि (तत्) प्रसिद्धम् (ते) तव (अमर्त्य) हे अमर। अविनाशिन् (यत्) (ते) (आक्रमणम्) उपरिगमनम् (दिवि) प्रत्येकव्यवहारे (यत्) (ते) (सधस्थम्) सहस्थानम् (परमे) सर्वोत्कृष्टे (व्योमन्) विविधरक्षासाधने मोक्षपदे ॥