Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 9
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - त्रिष्टुप् सूक्तम् - स्वर्गौदन सूक्त

    प्र॒तीची॑ दि॒शामि॒यमिद्वरं॒ यस्यां॒ सोमो॑ अधि॒पा मृ॑डि॒ता च॑। तस्यां॑ श्रयेथां सु॒कृतः॑ सचेथा॒मधा॑ प॒क्वान्मि॑थुना॒ सं भ॑वाथः ॥

    स्वर सहित पद पाठ

    प्र॒तीची॑ । दि॒शाम् । इ॒यम् । इत् । वर॑म् । यस्या॑म् । सोम॑: । अ॒धि॒ऽपा: । मृ॒डि॒ता । च॒ । तस्या॑म् । श्र॒ये॒था॒म् । सु॒ऽकृत॑: । स॒चे॒था॒म् । अध॑ । प॒क्वात् । मि॒थु॒ना॒ । सम् । भ॒वा॒थ॒: ॥३.९॥


    स्वर रहित मन्त्र

    प्रतीची दिशामियमिद्वरं यस्यां सोमो अधिपा मृडिता च। तस्यां श्रयेथां सुकृतः सचेथामधा पक्वान्मिथुना सं भवाथः ॥

    स्वर रहित पद पाठ

    प्रतीची । दिशाम् । इयम् । इत् । वरम् । यस्याम् । सोम: । अधिऽपा: । मृडिता । च । तस्याम् । श्रयेथाम् । सुऽकृत: । सचेथाम् । अध । पक्वात् । मिथुना । सम् । भवाथ: ॥३.९॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 9

    भावार्थ -
    (इयम् प्रतीची) यह प्रतीची, पश्चिम दिशा (इत्) ही (दिशाम्) समस्त दिशाओं में (वरम्) अच्छी है (यस्यां) जिसमें (सोमः) सोम, सर्वोत्पादक परमेश्वर या राजा या उत्पादक शुक्र ही (अधिपा) पालक अधिष्ठाता और (मृडिता च) सब को सुख देने वाला है। (तस्याम्) उस दिशा में (श्रयेथाम्) तुम दोनों स्त्री पुरुष आश्रय प्राप्त करो और (सुकृतः) शुभ कर्मों का (सचेथाम्) पालन करो। (अधा) और वहां ही (पक्वात्) पक्व वीर्य से, पक्व वीर्य होकर (मिथुना सं भवाथः) परस्पर जोड़ा होकर सन्तान पैदा करो।

    ऋषि | देवता | छन्द | स्वर - यम ऋषिः। मन्त्रोक्तः स्वर्गौदनोऽग्निर्देवता। १, ४२, ४३, ४७ भुरिजः, ८, १२, २१, २२, २४ जगत्यः १३ [१] त्रिष्टुप, १७ स्वराट्, आर्षी पंक्तिः, ३.४ विराड्गर्भा पंक्तिः, ३९ अनुष्टुद्गर्भा पंक्तिः, ४४ परावृहती, ५५-६० व्यवसाना सप्तपदाऽतिजागतशाकरातिशाकरधार्त्यगर्भातिधृतयः [ ५५, ५७-६० कृतयः, ५६ विराट् कृतिः ]। षष्ट्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top