Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 61
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
वि॒वस्वा॑न्नो॒अभ॑यं कृणोतु॒ यः सु॒त्रामा॑ जी॒रदा॑नुः सु॒दानुः॑। इ॒हेमे वी॒रा ब॒हवो॑भवन्तु॒ गोम॒दश्व॑व॒न्मय्य॑स्तु पु॒ष्टम् ॥
स्वर सहित पद पाठवि॒वस्वा॑न् । न॒: । अभय॑म् । कृ॒णो॒तु॒ । य: । सु॒ऽत्रामा॑ । जी॒रऽदा॑नु: । सु॒ऽदानु॑: । इ॒ह । इ॒मे । वी॒रा: । ब॒हव॑: । भ॒व॒न्तु॒ । गोऽम॑त् । अश्व॑ऽवत् । मयि॑ । अ॒स्तु॒ । पु॒ष्टम् ॥३.६१॥
स्वर रहित मन्त्र
विवस्वान्नोअभयं कृणोतु यः सुत्रामा जीरदानुः सुदानुः। इहेमे वीरा बहवोभवन्तु गोमदश्ववन्मय्यस्तु पुष्टम् ॥
स्वर रहित पद पाठविवस्वान् । न: । अभयम् । कृणोतु । य: । सुऽत्रामा । जीरऽदानु: । सुऽदानु: । इह । इमे । वीरा: । बहव: । भवन्तु । गोऽमत् । अश्वऽवत् । मयि । अस्तु । पुष्टम् ॥३.६१॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 61
भाषार्थ -
(विवस्वान) अज्ञानान्धकार को दूर करनेवाला, विविध जगत् में बसा हुआ परमेश्वर (नः) हमें (अभयम्) निर्भय (कृणोतु) करे, (यः) जो परमेश्वर कि (जीरदानुः) जीवनदाता, शीघ्र फलदाता, और (सुदानुः) उत्तम दानी है। (इह) इस गृहस्थ जीवन में (इमे) ये (वीराः) वीर सन्तानें (बहवः) बहुत (भवन्तु) हों। (मयि) मुझ गृहस्थी में (पुष्टम्) परिपुष्टि (अस्तु) हो, (गोमत् अश्ववत्) गौएं हों, और अश्व हों।
टिप्पणी -
[विवस्वान् = विवासयति दूरीकरोति। वि= विविध + वस् (बसना) + वान् (वाला)। जीरदानुः=जीवयति प्राणान् धारयति (उणा० २।२४); जीराः= क्षिप्रनाम (निघं० १।१५)।]