अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 11
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
ऋक्सा॒माभ्या॑म॒भिहि॑तौ॒ गावौ॑ ते साम॒नावै॑ताम्। श्रोत्रे॑ ते च॒क्रे आ॑स्तांदि॒वि पन्था॑श्चराच॒रः ॥
स्वर सहित पद पाठऋ॒क्ऽसा॒माभ्या॑म् । अ॒भिऽहि॑तौ । गावौ॑ । ते॒ । सा॒म॒नौ । ऐ॒ता॒म् । श्रोत्रे॒ इति॑ । ते॒ । च॒क्रे इति॑ । आ॒स्ता॒म् । दि॒वि । पन्था॑: । च॒रा॒च॒र: ॥१.११॥
स्वर रहित मन्त्र
ऋक्सामाभ्यामभिहितौ गावौ ते सामनावैताम्। श्रोत्रे ते चक्रे आस्तांदिवि पन्थाश्चराचरः ॥
स्वर रहित पद पाठऋक्ऽसामाभ्याम् । अभिऽहितौ । गावौ । ते । सामनौ । ऐताम् । श्रोत्रे इति । ते । चक्रे इति । आस्ताम् । दिवि । पन्था: । चराचर: ॥१.११॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 11
विषय - विवाह संस्कार का उपदेश।
पदार्थ -
(ऋक्सामाभ्याम्)पदार्थों की स्तुतिविद्या और मोक्षज्ञान द्वारा (अभिहितौ) कहे गये [दो प्रकारके बोध] (गावौ) दो बैल [रथ के दो बैलों के समान] (ते) तेरे (सामनौ=समानौ)अनुकूल (ऐताम्) चलें। (ते) तेरे (श्रोत्रे) दोनों कान (चक्रे) दो पहिये [समान] (आस्ताम्) होवें, (दिवि) प्रत्येक व्यवहार में (पन्थाः) मार्ग (चराचरः) चलाचल [रहे] ॥११॥
भावार्थ - कन्या वेदविहितकर्मों में प्रवीण होकर श्रवण मनन द्वारा संसार के पदार्थों से गुण ग्रहण करकेगृहाश्रम के व्यवहार चलाने में समर्थ होवे ॥११॥
टिप्पणी -
११−(ऋक्सामाभ्याम्) पदार्थानांस्तुतिविद्यया मोक्षज्ञानेन च (अभिहितौ) विहितौ बोधौ (गावौ) रथस्य गमयितारौवृषभौ यथा (ते) तव (सामनौ) समानौ। अनुकूलौ (ऐताम्) गच्छताम् (श्रोत्रे)गुणग्राहकौ कर्णौ (ते) तव (चक्रे) रथाङ्गे यथा (आस्ताम्) स्याताम् (दिवि)प्रत्येकव्यवहारे (पन्थाः) मार्गः (चराचरः) चरिचलिपतिवदीनांद्वित्वमच्याक्चाभ्यासस्य। वा० पा० ६।१।१२। इति रूपसिद्धिः। चलाचलः। अत्यन्तगमनयोग्यः ॥