अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 34
सूक्त - आत्मा
देवता - प्रस्तार पङ्क्ति
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
अ॑नृक्ष॒राऋ॒जवः॑ सन्तु॒ पन्था॑नो॒ येभिः॒ सखा॑यो॒ यन्ति॑ नो वरे॒यम्। सं भगे॑न॒सम॑र्य॒म्णा सं धा॒ता सृ॑जतु॒ वर्च॑सा ॥
स्वर सहित पद पाठअ॒नृ॒क्ष॒रा: । ऋ॒जव॑: । स॒न्तु॒ । पन्था॑न: । येभि॑: । सखा॑य: । यन्ति॑ । न॒: । व॒रे॒ऽयम् । सम् । भगे॑न । सम् । अ॒र्य॒म्णा । सम् । धा॒ता । सृ॒ज॒तु॒ । वर्च॑सा ॥१.३४॥
स्वर रहित मन्त्र
अनृक्षराऋजवः सन्तु पन्थानो येभिः सखायो यन्ति नो वरेयम्। सं भगेनसमर्यम्णा सं धाता सृजतु वर्चसा ॥
स्वर रहित पद पाठअनृक्षरा: । ऋजव: । सन्तु । पन्थान: । येभि: । सखाय: । यन्ति । न: । वरेऽयम् । सम् । भगेन । सम् । अर्यम्णा । सम् । धाता । सृजतु । वर्चसा ॥१.३४॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 34
विषय - विवाह संस्कार का उपदेश।
पदार्थ -
(अनृक्षराः) बिनाकाँटोंवाले (ऋजवः) सीधे (पन्थानः) मार्ग (सन्तु) होवें, (येभिः) जिन से (नः)हमारे (सखायः) मित्र लोग (वरेयम्=वरेण्यम्) सुन्दर विधान से (यन्ति) चलते हैं। (धाता) धारण करनेवाला [परमेश्वर] (भगेन सम्) ऐश्वर्य के साथ (अर्यम्णा सम्)श्रेष्ठों के मान करनेवाले व्यवहार के साथ और (वर्चसा सम्) प्रताप के साथ [हमको] (सृजतु) संयुक्त करे ॥३४॥
भावार्थ - सब घर के लोग परमेश्वरकी उपासना के साथ विद्वानों के समान विघ्नों का नाश करके श्रेष्ठों के सन्मान सेऐश्वर्यवान् और प्रतापी होवें ॥३४॥इस मन्त्र का पूर्वार्ध कुछ भेद से ऋग्वेद मेंहै−१०।८५।२३ ॥
टिप्पणी -
३४−(अनृक्षराः) अकण्टकाः (ऋजवः) सरलाः (सन्तु) (पन्थानः) मार्गाः (येभिः) यैः (सखायः) सुहृदः (यन्ति) गच्छन्ति (नः) अस्माकम् (वरेयम्) णलोपः। यथातथा, वरेण्यम्। वरणीयेन विधानेन (सम्) सह (भगेन) ऐश्वर्येण (सम्) (अर्यम्णा)श्रेष्ठानां मानकर्तृव्यवहारेण (सम्) (धाता) धारकः परमेश्वरः (सृजतु) योजयतु (वर्चसा) प्रतापेन ॥