अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 15
सूक्त - आत्मा
देवता - आस्तार पङ्क्ति
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
यदया॑तं शुभस्पतीवरे॒यं सू॒र्यामुप॑। विश्वे॑ दे॒वा अनु॒ तद्वा॑मजानन्पु॒त्रः पि॒तर॑मवृणीतपू॒षा ॥
स्वर सहित पद पाठयत् । अया॑तम् । शु॒भ॒: । प॒ती॒ इति॑ । व॒रे॒ऽयम् । सू॒र्याम् । उप॑ । विश्वे॑ । दे॒वा: । अनु॑ । तत् । वा॒म् । अ॒जा॒न॒न् । पु॒त्र: । पि॒तर॑म् । अ॒वृ॒णी॒त॒ । पू॒षा ।१.१५॥
स्वर रहित मन्त्र
यदयातं शुभस्पतीवरेयं सूर्यामुप। विश्वे देवा अनु तद्वामजानन्पुत्रः पितरमवृणीतपूषा ॥
स्वर रहित पद पाठयत् । अयातम् । शुभ: । पती इति । वरेऽयम् । सूर्याम् । उप । विश्वे । देवा: । अनु । तत् । वाम् । अजानन् । पुत्र: । पितरम् । अवृणीत । पूषा ।१.१५॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 15
विषय - विवाह संस्कार का उपदेश।
पदार्थ -
(शुभः पती) हे शुभक्रिया के पालन करनेवाले [स्त्री-पुरुष समूह !] तुम दोनों (यत्) जब (सूर्याम्=सूर्यायाः) प्रेरणा करनेवाली [वा सूर्य की चमक के समान तेजवाली] कन्या के (वरेयम्) श्रेष्ठ कर्म में (उप) आदर से (अयातम्) पहुँचो। (विश्वे देवाः) सबविद्वान् लोग (वाम्) तुम दोनों के (तत्) उस [कर्म] में (अनु अजानन्) सम्मति दें [कि] (पूषा) पोषण करनेवाला (पुत्रः) पुत्र (पितरम्) पिता को (अवृणीत) स्वीकारकरे ॥१५॥
भावार्थ - शुभचिन्तक स्त्रीपुरुषविवाह में आकर प्रयत्न करें कि विद्वान् लोग प्रसन्न होकर आशीर्वाद दें कि उनवधू-वर का पुत्र पोषण करनेवाला विद्वान् पराक्रमी होवे ॥१५॥यह मन्त्र ऋग्वेद मेंहै−१०।८५।१४, १५ ॥
टिप्पणी -
१५−(यत्) यदा (अयातम्) अगच्छतम् (शुभस्पती) शुभक्रियायाःपालकौ (वरेयम्) णलोपः। वरेण्यम्। श्रेष्ठः कर्म (सूर्याम्) षष्ठ्यर्थेद्वितीया। सूर्यायाः। प्रेरिकायाः कन्यायाः (उप) आदरेण (विश्वे) सर्वे (देवाः)विद्वांसः (अनु अजानन्) अनुकूलं जानन्तु। स्वीकुर्वन्तु (तत्) वक्ष्यमाणं कर्म (वाम्) युवयोः (पुत्रः) सुतः (पितरम्) जनकम् (अवृणीत) स्वीकरोतु (पूषा) पोषकः ॥