अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 19
सूक्त - आत्मा
देवता - त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
प्र त्वा॑मुञ्चामि॒ वरु॑णस्य॒ पाशा॒द्येन॒ त्वाब॑ध्नात्सवि॒ता सु॒शेवाः॑। ऋ॒तस्य॒ योनौ॑सुकृ॒तस्य॑ लो॒के स्यो॒नं ते॑ अस्तु स॒हसं॑भलायै ॥
स्वर सहित पद पाठप्र । त्वा॒ । मु॒ञ्चा॒मि॒ । वरु॑णस्य । पाशा॑त् । येन॑ । त्वा॒ । अब॑ध्नात् । स॒वि॒ता । सु॒ऽशेवा॑: । ऋ॒तस्य॑ । योनौ॑ । सु॒ऽकृ॒तस्य॑ । लो॒के । स्यो॒नम् । ते॒ । अ॒स्तु॒ । स॒हऽसं॑भलायै ॥१.१९॥
स्वर रहित मन्त्र
प्र त्वामुञ्चामि वरुणस्य पाशाद्येन त्वाबध्नात्सविता सुशेवाः। ऋतस्य योनौसुकृतस्य लोके स्योनं ते अस्तु सहसंभलायै ॥
स्वर रहित पद पाठप्र । त्वा । मुञ्चामि । वरुणस्य । पाशात् । येन । त्वा । अबध्नात् । सविता । सुऽशेवा: । ऋतस्य । योनौ । सुऽकृतस्य । लोके । स्योनम् । ते । अस्तु । सहऽसंभलायै ॥१.१९॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 19
विषय - विवाह संस्कार का उपदेश।
पदार्थ -
[हे वधू !] (त्वा)तुझे (वरुणस्य) रुकावट के (पाशात्) बन्धन से (प्र मुञ्चामि) मैं [वर] अच्छेप्रकार छुड़ाता हूँ, (येन) जिसके साथ (त्वा) तुझे (सुशेवाः) अत्यन्त सेवायोग्य (सविता) जन्मदाता पिता ने (अबध्नात्) बाँधा है। (ऋतस्य) सत्य नियम के (योनौ) घरमें और (सुकृतस्य) सुकृत [पुण्य कर्म] के (लोके) समाज में (सहसम्भलायै) सहेलियोंसहित वर्तमान (ते) तेरे लिये (स्योनम्) आनन्द (अस्तु) होवे ॥१९॥
भावार्थ - जिस कन्या को पिता नेयोग्य पति मिलने तक रोका था, उस को पिता के घर से प्रसन्नता के साथ लेकर वरबड़े प्रेम से रक्खे और घर के सब धर्मात्मा विद्वान् स्त्री-पुरुष श्रेष्ठव्यवहार करके उसे सुख देते रहें ॥१९॥मन्त्र १८ की टिप्पणी देखो ॥
टिप्पणी -
१९−(प्र)प्रकर्षेण (त्वा) वधूम् (मुञ्चामि) मोचयामि (वरुणस्य) वृञ् संवरणे-उनन्। आवरणस्यविघ्नस्य (पाशात्) बन्धात् (येन) (त्वा) (अबध्नात्) बन्धे कृतवान् (सविता)जन्मदाता पिता (सुशेवाः) अ० २।२।२। सु+शेवृ सेवने-असुन्। सुष्ठु सेवनीयः (ऋतस्य)सत्यनियमस्य (योनौ) गृहे (सुकृतस्य) पुण्यकर्मणः (लोके) समाजे (स्योनम्) सुखम् (ते) तुभ्यम् (अस्तु) (सहसम्भलायै) सह+सम्+भल परिभाषणहिंसादानेषु-अच्, टाप्।सम्भलाभिः सम्भाषिकाभिः सखिभिः सह वर्तमानायै ॥