अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 31
सूक्त - आत्मा
देवता - बृहती गर्भा त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
यु॒वं भगं॒ संभ॑रतं॒ समृ॑द्धमृ॒तं वद॑न्तावृ॒तोद्ये॑षु। ब्रह्म॑णस्पते॒ पति॑म॒स्यै रो॑चय॒चारु॑ संभ॒लो व॑दतु॒ वाच॑मे॒ताम् ॥
स्वर सहित पद पाठयु॒वम् । भग॑म् । सम् । भ॒र॒त॒म् । सम्ऽऋ॑ध्दम् । ऋ॒तम् । वद॑न्तौ । ऋ॒त॒ऽउद्ये॑षु । ब्रह्म॑ण: । प॒ते॒ । पति॑म् । अ॒स्यै । रो॒च॒य॒ । चारु॑ । स॒म्ऽभ॒ल: । व॒द॒तु॒ । वाच॑म् । ए॒ताम् ॥१.३१॥
स्वर रहित मन्त्र
युवं भगं संभरतं समृद्धमृतं वदन्तावृतोद्येषु। ब्रह्मणस्पते पतिमस्यै रोचयचारु संभलो वदतु वाचमेताम् ॥
स्वर रहित पद पाठयुवम् । भगम् । सम् । भरतम् । सम्ऽऋध्दम् । ऋतम् । वदन्तौ । ऋतऽउद्येषु । ब्रह्मण: । पते । पतिम् । अस्यै । रोचय । चारु । सम्ऽभल: । वदतु । वाचम् । एताम् ॥१.३१॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 31
विषय - विवाह संस्कार का उपदेश।
पदार्थ -
[हे वधू-वर !] (ऋतोद्येषु) सत्यवचनों के बीच (ऋतम्) सत्य (वदन्तौ) बोलते हुए (युवम्) तुमदोनों (समृद्धम्) अधिक सम्पत्तिवाले (भगम्) ऐश्वर्य को (सम्) मिलकर (भरतम्) धारणकरो। (ब्रह्मणः पते) हे वेद के रक्षक [परमेश्वर !] (अस्यै) इस [वधू] के लिये (पतिम्) पति को (रोचय) आनन्दित कर−(एताम् वाचम्) इस वचन को (संभलः) यथार्थवक्तापुरुष (चारु) मनोहर रीति से (वदतु) बोले ॥३१॥
भावार्थ - विद्वान् लोग परमेश्वरसे प्रार्थना करके आशीर्वाद देवें कि यह दोनों स्त्री-पुरुष अपनी प्रतिज्ञाओंमें दृढ़ रहकर सम्पत्ति और ऐश्वर्य प्राप्त करके सदा प्रसन्न रहें॥३१॥
टिप्पणी -
३१−(युवम्) युवां वधूवरौ (भगम्) ऐश्वर्यम् (सम्) मिलित्वा (भरतम्) धारयतम् (समृद्धम्) बुहुवृद्धियुक्तम् (ऋतम्) सत्यम् (वदन्तौ) कथयन्तौ (ऋतोद्येषु)वद-क्यपि। सत्यकथनेषु (ब्रह्मणः) वेदस्य (पते) रक्षक परमेश्वर (पतिम्)भर्त्तारम् (अस्यै) वधूहिताय (रोचय) प्रसादय (चारु) यथा तथा, मनोहररीत्या (संभलः) सम्यग्वक्ता (वाचम्) वाणीम् (एताम्) ॥