अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 33
सूक्त - आत्मा
देवता - त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
इ॒मं गा॑वःप्र॒जया॒ सं वि॑शाथा॒यं दे॒वानां॒ न मि॑नाति भा॒गम्। अ॒स्मै वः॑ पू॒षाम॒रुत॑श्च॒ सर्वे॑ अ॒स्मै वो॑ धा॒ता स॑वि॒ता सु॑वाति ॥
स्वर सहित पद पाठइ॒मम् । गा॒व॒: । प्र॒ऽजया॑ । सम् । वि॒शा॒थ॒ । अ॒यम् । दे॒वाना॑म् । न । मि॒ना॒ति॒ । भा॒गम् । अ॒स्मै । व॒: । पू॒षा । म॒रुत॑: । च॒ । सर्वे॑ । अ॒स्मै । व॒: । धा॒ता । स॒वि॒ता। सु॒वा॒ति॒ ॥१.३३॥
स्वर रहित मन्त्र
इमं गावःप्रजया सं विशाथायं देवानां न मिनाति भागम्। अस्मै वः पूषामरुतश्च सर्वे अस्मै वो धाता सविता सुवाति ॥
स्वर रहित पद पाठइमम् । गाव: । प्रऽजया । सम् । विशाथ । अयम् । देवानाम् । न । मिनाति । भागम् । अस्मै । व: । पूषा । मरुत: । च । सर्वे । अस्मै । व: । धाता । सविता। सुवाति ॥१.३३॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 33
विषय - विवाह संस्कार का उपदेश।
पदार्थ -
(गावः) हे गतिशील [पुरुषार्थी कुटुम्बियो !] (इमम्) इस [पुरुष] में (प्रजया) प्रजा [सन्तान, सेवकआदि] के साथ (सम्) मिलकर (विशाथ) तुम प्रवेश करो, (अयम्) यह [पुरुष] (देवानाम्)विद्वानों के (भागम्) भाग को (न) नहीं (मिनाति) नाश करता है। (अस्मै) इस [पुरुष]के लिये (वः) तुम को (पूषा) पोषक वैद्य (च) और (सर्वे) सब (मरुतः) शूर पुरुष, और (अस्मै) इस [पुरुष] के लिये (वः) तुमको (धाता) धारण करनेवाला (सविता) प्रेरकआचार्य (सुवाति) आगे बढ़ावे ॥३३॥
भावार्थ - कुटुम्बियों को योग्यहै कि सब सन्तानों और उपयोगी पुरुषों सहित मिलकर विद्वान् प्रधान पुरुष का आदरमान करें ॥३३॥
टिप्पणी -
३३−(इमम्) पुरुषम् (गावः) म० ३२। हे गतिशीलाः पुरुषार्थिनःकुटुम्बिनः (प्रजया) सन्तानसेवकादिना सह (सम्) मिलित्वा (विशाथ) प्रविशत (अयम्)जनः (देवानाम्) विदुषाम् (न) निषेधे (मिनाति) मीञ् वधे, ह्रस्वः। मीनाति नाशयति (भागम्) अंशम् (अस्मै) पुरुषाय (वः) युष्मान् (पूषा) पोषको वैद्यः (मरुतः)शत्रुमारकाः शूराः (च) (सर्वे) (अस्मै) (वः) युष्मान् (धाता) धारकः (सविता)प्रेरक आचार्यः (सुवाति) प्रेरयेत् ॥