अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 35
सूक्त - आत्मा
देवता - सोम
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
यच्च॒ वर्चो॑अ॒क्षेषु॒ सुरा॑यां च॒ यदाहि॑तम्। यद्गोष्व॑श्विना॒ वर्च॒स्तेने॒मांवर्च॑सावतम् ॥
स्वर सहित पद पाठयत् । च॒ । वर्च॑: । अ॒क्षेषु॑ । सुरा॑याम् । च॒ । यत् । आऽहि॑तम् । यत् । गोषु॑ । अ॒श्विना॑ । वर्च॑: । तेन॑ । इ॒माम् । वर्च॑सा । अ॒व॒त॒म् ॥१.३५॥
स्वर रहित मन्त्र
यच्च वर्चोअक्षेषु सुरायां च यदाहितम्। यद्गोष्वश्विना वर्चस्तेनेमांवर्चसावतम् ॥
स्वर रहित पद पाठयत् । च । वर्च: । अक्षेषु । सुरायाम् । च । यत् । आऽहितम् । यत् । गोषु । अश्विना । वर्च: । तेन । इमाम् । वर्चसा । अवतम् ॥१.३५॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 35
विषय - विवाह संस्कार का उपदेश।
पदार्थ -
(यत्) जो (वर्चः) तेज (अक्षेषु) व्यवहारकुशलों में (च च) और (यत्) जो [तेज] (सुरायाम्) ऐश्वर्य [वालक्ष्मी] में (आहितम्) रक्खा गया है। (यत्) जो (वर्चः) तेज (गोषु) गतिशील [पुरुषार्थी] लोगों में है, (अश्विना) हे विद्या को प्राप्त दोनों [स्त्री-पुरुष समूहो !] (तेन वर्चसा) उस तेज से (इमाम्) इस [वधू] को (अवतम्) शोभायमान करो॥३५॥
भावार्थ - सब स्त्री-पुरुष प्रयत्न करके शिक्षा देवें कि वे विद्वान् पति-पत्नी अपने कर्तव्यों को सकुशलसिद्ध करके तेजस्वी होवें ॥३५॥
टिप्पणी -
३५−(यत्) (च) (वर्चः) तेजः (अक्षेषु) अक्ष-अर्शआद्यच्। व्यवहारकुशलेषु (सुरायाम्) षुर दीप्तो ऐश्वर्ये च-क, टाप्। ऐश्वर्ये।लक्ष्म्याम् (च) (यत्) (आहितम्) स्थापितम् (यत्) (गोषु) म० ३२। गतिशीलेषुपुरुषार्थिषु (अश्विना) हे प्राप्तविद्यौ स्त्रीपुरुषसमूहौ (वर्चः) (तेन) (इमाम्) वधूम् (वर्चसा) तेजसा (अवतम्) अव रक्षणशोभादिषु। शोभयतम् ॥