अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 45
सूक्त - आत्मा
देवता - बृहती गर्भा त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
याअकृ॑न्त॒न्नव॑य॒न्याश्च॑ तत्नि॒रे या दे॒वीरन्ताँ॑ अ॒भितोऽद॑दन्त। तास्त्वा॑ज॒रसे॒ सं व्य॑य॒न्त्वायु॑ष्मती॒दं परि॑ धत्स्व॒ वासः॑ ॥
स्वर सहित पद पाठया: । अकृ॑न्तन् । अव॑यन् । या: । च॒ । त॒त्नि॒रे । या: । दे॒वी: । अन्ता॑न् । अ॒भित॑: । अद॑दन्त । ता: । त्वा॒ । ज॒रसे॒ । सम् । व्य॒य॒न्तु॒ । आयु॑ष्मती । इ॒दम् । परि॑ । ध॒त्स्व॒ । वास॑: ॥१.४५॥
स्वर रहित मन्त्र
याअकृन्तन्नवयन्याश्च तत्निरे या देवीरन्ताँ अभितोऽददन्त। तास्त्वाजरसे सं व्ययन्त्वायुष्मतीदं परि धत्स्व वासः ॥
स्वर रहित पद पाठया: । अकृन्तन् । अवयन् । या: । च । तत्निरे । या: । देवी: । अन्तान् । अभित: । अददन्त । ता: । त्वा । जरसे । सम् । व्ययन्तु । आयुष्मती । इदम् । परि । धत्स्व । वास: ॥१.४५॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 45
विषय - विवाह संस्कार का उपदेश।
पदार्थ -
(याः) जिन [स्त्रियों]ने (अकृन्तन्) काता है, (च) और (याः) जिन्होंने (तत्निरे) तन्तुओं को फैलाया है, और (अवयन्) बुना है, और (याः देवीः) जिन देवियों ने (अन्तान्) [वस्त्र के] आँचल (अभितः) सब प्रकार से (अददन्त) दिये हैं। [हे वधू !] (ताः) वे सब स्त्रियाँ (त्वा)तुझे (जरसे) बड़ाई के लिये (सं व्ययन्तु) वस्त्र पहिनावें, (आयुष्मती) बड़ीआयुवाली तू (इदं वासः) इस वस्त्र को (परि धत्स्व) धारण कर ॥४५॥
भावार्थ - बड़ी-बड़ी गुणवतीस्त्रियाँ आदर करके सुन्दर-सुन्दर वस्त्र वधू को देकर पहिनावें और आशीर्वाददेवें कि वह प्रसन्न रहकर बड़ा यश प्राप्त करे ॥४५॥
टिप्पणी -
४५−(याः) स्त्रियः (अकृन्तन्) कृती वेष्टने, छेदने च। वेष्टितवत्यः (अवयन्) वेञ् तन्तुसन्ताने।ओतवत्यः (याः) (च) (तत्निरे) तन्तून् विस्तारितवत्यः (याः) (देवीः) देव्यः।दिव्यगुणाः स्त्रियः (अन्तान्) वस्त्रान्तान् (अभितः) सर्वतः (अददन्त) दद दाने।दत्तवत्यः (ताः) (त्वा) त्वां वधूम् (जरसे) स्तुतिलाभाय (सं व्ययन्तु) व्येञ्स्यूतौ, वरणे च। आच्छादयन्तु (आयुष्मती) पूर्णजीवनवती त्वम् (इदम्) (परि धत्स्व)परिधारय (वासः) वस्त्रम् ॥