अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 30
सूक्त - आत्मा
देवता - सोम
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
स इत्तत्स्यो॒नंह॑रति ब्र॒ह्मा वासः॑ सुम॒ङ्गल॑म्। प्राय॑श्चित्तिं॒ यो अ॒ध्येति॒ येन॑ जा॒या नरिष्य॑ति ॥
स्वर सहित पद पाठस: । इत् । तत् । स्यो॒नम् । ह॒र॒ति॒ । ब्र॒ह्मा । वास॑: । सु॒ऽम॒ङ्गल॑म् । प्राय॑श्चित्तिम् । य: । अ॒धि॒ऽएति॑ । येन॑ । जा॒या । न । रिष्य॑ति ॥१.३०॥
स्वर रहित मन्त्र
स इत्तत्स्योनंहरति ब्रह्मा वासः सुमङ्गलम्। प्रायश्चित्तिं यो अध्येति येन जाया नरिष्यति ॥
स्वर रहित पद पाठस: । इत् । तत् । स्योनम् । हरति । ब्रह्मा । वास: । सुऽमङ्गलम् । प्रायश्चित्तिम् । य: । अधिऽएति । येन । जाया । न । रिष्यति ॥१.३०॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 30
विषय - विवाह संस्कार का उपदेश।
पदार्थ -
(सः) इत्) वही (ब्रह्मा) ब्रह्मा [वेदवेत्ता पति] (तत्) तब (स्योनम्) सुखदायक और (सुमङ्गलम्)बड़े मङ्गलमय (वासः) वस्त्र आदि [घर में] (हरति) लाता है, (यः) जो [पति] (प्रायश्चित्तिम्) प्रायश्चित क्रिया को (अध्येति) जानता है, (येन) जिस के कारण (जाया) पत्नी (न रिष्यति) कष्ट नहीं पाती ॥३०॥
भावार्थ - जब मनुष्य विद्वान्दूरदर्शी होकर गृहाश्रम में प्रवेश करता है, वही परिश्रम करके वस्त्र आदि आवश्यकपदार्थ लाकर घर में पत्नी सहित आनन्द पाता है ॥३०॥
टिप्पणी -
३०−(सः) (इत्) एव (तत्) तदा (स्योनम्) सुखदम् (हरति) प्रापयति। प्राप्नोति (ब्रह्मा) वेदज्ञः पतिः (वासः)वस्त्रादिकम् (सुमङ्गलम्) महाहितकरम् (प्रायश्चित्तिम्) प्रायश्चित्तक्रियाम्।पापक्षयविधानम् (यः) (अध्येति) जानाति (येन) कारणेन (जाया) पत्नी (न) निषेधे (रिष्यति) दुःखं प्राप्नोति ॥