अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 43
सूक्त - आत्मा
देवता - सोम
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
यथा॒सिन्धु॑र्न॒दीनां॒ साम्रा॑ज्यं सुषु॒वे वृषा॑। ए॒वा त्वं॑ स॒म्राज्ञ्ये॑धि॒पत्यु॒रस्तं॑ प॒रेत्य॑ ॥
स्वर सहित पद पाठयथा॑ । सिन्धु॑: । न॒दीना॑म् । साम्ऽरा॑ज्यम् । सु॒सु॒वे । वृषा॑ । ए॒व । त्वम् । स॒म्ऽराज्ञी॑ । ए॒धि॒ । पत्यु॑: । अस्त॑म् । प॒रा॒ऽइत्य॑ ॥१.४३॥
स्वर रहित मन्त्र
यथासिन्धुर्नदीनां साम्राज्यं सुषुवे वृषा। एवा त्वं सम्राज्ञ्येधिपत्युरस्तं परेत्य ॥
स्वर रहित पद पाठयथा । सिन्धु: । नदीनाम् । साम्ऽराज्यम् । सुसुवे । वृषा । एव । त्वम् । सम्ऽराज्ञी । एधि । पत्यु: । अस्तम् । पराऽइत्य ॥१.४३॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 43
विषय - विवाह संस्कार का उपदेश।
पदार्थ -
(यथा) जैसे (वृषा)बलवान् (सिन्धुः) समुद्र ने (नदीनाम्) नदियों का (साम्राज्यम्) साम्राज्य [चक्रवर्ती राज्य, अपने लिये] (सुषुवे) उत्पन्न किया है। [हे वधू !] (एव) वैसेही (त्वम्) तू (पत्युः) पति के (अस्तम्) घर (परेत्य) पहुँचकर (सम्राज्ञी)राजराजेश्वरी [चक्रवर्ती रानी] (एधि) हो ॥४३॥
भावार्थ - बड़े लोगों की शिक्षाऔर आशीर्वाद से वधू सावधानी के साथ घर के सबकामों को अपने हाथ में लेकर महारानीबनकर रहे ॥४३॥
टिप्पणी -
४३−(यथा) येन प्रकारेण (सिन्धुः) समुद्रः (नदीनाम्) सरिताम् (साम्राज्यम्) सार्वभौमत्वम्। चक्रवर्तिराज्यम् (सुषुवे) उत्पादयमास (वृषा)बलवान् (एव) तथा (त्वम्) (सम्राज्ञी) राजराजेश्वरी (एधि) भव (पत्युः) (अस्तम्)गृहम् (परेत्य) प्राप्य ॥