अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 57
सूक्त - आत्मा
देवता - त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
अ॒हं विष्या॑मि॒मयि॑ रू॒पम॑स्या॒ वेद॒दित्प॑श्य॒न्मन॑सः कु॒लाय॑म्। न स्तेय॑मद्मि॒मन॒सोद॑मुच्ये स्व॒यं श्र॑थ्ना॒नो वरु॑णस्य॒ पाशा॑न् ॥
स्वर सहित पद पाठअ॒हम् । वि । स्या॒मि॒ । मयि॑ । रू॒पम् । अ॒स्या॒: । वेद॑त् । इत् । पश्य॑न् । मन॑स: । कु॒लाय॑म् । न । स्तेय॑म् । अ॒द्मि॒ । मन॑सा । उत् । अ॒मु॒च्ये॒ । स्व॒यम् । अ॒श्ना॒न: । वरु॑णस्य । पाशा॑न् ॥१.५७॥
स्वर रहित मन्त्र
अहं विष्यामिमयि रूपमस्या वेददित्पश्यन्मनसः कुलायम्। न स्तेयमद्मिमनसोदमुच्ये स्वयं श्रथ्नानो वरुणस्य पाशान् ॥
स्वर रहित पद पाठअहम् । वि । स्यामि । मयि । रूपम् । अस्या: । वेदत् । इत् । पश्यन् । मनस: । कुलायम् । न । स्तेयम् । अद्मि । मनसा । उत् । अमुच्ये । स्वयम् । अश्नान: । वरुणस्य । पाशान् ॥१.५७॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 57
विषय - विवाह संस्कार का उपदेश।
पदार्थ -
(अस्याः) इस [पत्नी]के (रूपम्) रूप [स्वभाव वा सौन्दर्य] को (मनसः) अपने मन का (कुलायम्) आधार (वेदत्) जानता हुआ और (पश्यन्) देखता हुआ (इत्) ही (अहम्) मैं [वर] (मयि) अपनेमें (वि ष्यामि) निश्चय करके धारण करता हूँ। (स्तेयम्) चोरी के पदार्थ को (न)नहीं (अद्मि) खाता हूँ, (मनसा) विज्ञान के साथ (वरुणस्य) रुकावट [अर्थात् विघ्न]के (पाशान्) फन्दों को (स्वयम्) अपने आप [अर्थात् पुरुषार्थ से] (श्रथ्नानः)ढीला करता हुआ (उत् अमुच्ये) मैं छूट गया हूँ ॥५७॥
भावार्थ - विद्वान् पति-पत्नीपरस्पर उत्तम गुण स्वभाव को हृदय में धारण करके विचारपूर्वक विघ्नों को हटाकरनिष्कपट होकर उन्नति करें ॥५७॥
टिप्पणी -
५७−(अहम्) वरः (वि ष्यामि) व्यवसायेन निश्चयेनधारयामि (मयि) आत्मनि (रूपम्) स्वभावम्। सौन्दर्यम् (अस्याः) पत्न्याः (वेदत्)विदन्। जानन् (इत्) एव (पश्यन्) अवलोकयन् (मनसः) अन्तःकरणस्य (कुलायम्) आधारम् (न) निषेधे (स्तेयम्) स्तेन-यत्, नलोपः। चौर्यपदार्थम् (अद्मि) भक्षयामि (मनसा)विज्ञानेन (उत्) उत्कर्षेण (अमुच्ये) मुक्तोऽस्मि (स्वयम्) आत्मना। पुरुषार्थेन (श्रथ्नानः) शिथिलीकुर्वन् (वरुणस्य) आवरणस्य। विघ्नस्य (पाशान्) बन्धान् ॥