Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 12
    सूक्त - आत्मा देवता - जगती छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    सं का॑शयामिवह॒तुं ब्रह्म॑णा गृ॒हैरघो॑रेण॒ चक्षु॑षा मि॒त्रिये॑ण। प॒र्याण॑द्धंवि॒श्वरू॑पं॒ यदस्ति॑ स्यो॒नं पति॑भ्यः सवि॒ता तत्कृ॑णोतु ॥

    स्वर सहित पद पाठ

    सम् । का॒श॒या॒मि॒ । व॒ह॒तुम् । ब्रह्म॑णा । गृ॒है: । अघो॑रेण । चक्षु॑षा । मि॒त्र‍िये॑ण । प॒रि॒ऽआन॑ध्दम् । वि॒श्वऽरू॑पम । यत् । अस्ति॑ । स्यो॒नम् । पति॑ऽभ्य: । स॒वि॒ता । तत् । कृ॒णो॒तु॒ ॥२.१२॥


    स्वर रहित मन्त्र

    सं काशयामिवहतुं ब्रह्मणा गृहैरघोरेण चक्षुषा मित्रियेण। पर्याणद्धंविश्वरूपं यदस्ति स्योनं पतिभ्यः सविता तत्कृणोतु ॥

    स्वर रहित पद पाठ

    सम् । काशयामि । वहतुम् । ब्रह्मणा । गृहै: । अघोरेण । चक्षुषा । मित्र‍ियेण । परिऽआनध्दम् । विश्वऽरूपम । यत् । अस्ति । स्योनम् । पतिऽभ्य: । सविता । तत् । कृणोतु ॥२.१२॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 12

    टिप्पणीः - १२−(सम्) सम्यक् (काशयामि) दीपयामि। दर्शयामि (वहतुम्) वधूम्। नवोढाम् (ब्रह्मणा) वेदज्ञानेन (गृहैः) गृहपदार्थैः सहवर्तमानाम् (अघोरेण) अक्रूरेण (चक्षुषा) नेत्रेण (मित्रियेण) मित्रत्वोपेतेन (पर्याणद्धम्) सर्वतः प्रबन्धेन धृतम् (विश्वरूपम्) सर्वप्रकारम् (यत्)पदार्थजातम् (अस्ति) (स्योनम्) सुखदम् (पतिभ्यः) पतिकुलस्थेभ्यः (सविता)सर्वप्रेरकः परमात्मा (तत्) पदार्थजातम् (कृणोतु) करोतु ॥

    इस भाष्य को एडिट करें
    Top