Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 66
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
यद्दु॑ष्कृ॒तंयच्छम॑लं विवा॒हे व॑ह॒तौ च॒ यत्। तत्सं॑भ॒लस्य॑ कम्ब॒ले मृ॒ज्महे॑ दुरि॒तंव॒यम् ॥
स्वर सहित पद पाठयत् । दु॒:ऽकृ॒तम् । यत् । शम॑लम् । वि॒ऽवा॒हे । व॒ह॒तौ । च॒ । यत् । तत् । स॒म्ऽभ॒लस्य॑ । क॒म्ब॒ले । मृ॒ज्महे॑ । दु॒:ऽइ॒तम् । व॒यम् ॥२.६६॥
स्वर रहित मन्त्र
यद्दुष्कृतंयच्छमलं विवाहे वहतौ च यत्। तत्संभलस्य कम्बले मृज्महे दुरितंवयम् ॥
स्वर रहित पद पाठयत् । दु:ऽकृतम् । यत् । शमलम् । विऽवाहे । वहतौ । च । यत् । तत् । सम्ऽभलस्य । कम्बले । मृज्महे । दु:ऽइतम् । वयम् ॥२.६६॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 66
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६६−(यत्) (दुष्कृतम्) दुष्टकर्म (यत्) (शमलम्) मालिन्यम् (विवाहे) (वहतौ)विवाहे दातव्यपदार्थे (च) (तत्) दुष्टकर्म (संभलस्य) भल निरूपणे-अच्। सम्यग्निरूपकस्य (कम्बले) कमेर्बुक्। उ० १।१०७ कमु कान्तौ-कल प्रत्यये बुक्। कमनीयेकर्मणि (मृज्महे) शोधयामः (दुरितम्) दुष्कर्म (वयम्) पुरुषार्थिनः ॥
इस भाष्य को एडिट करें