Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 36
    सूक्त - देवगण देवता - परानुष्टुप् त्रिष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    रा॒या व॒यंसु॒मन॑सः स्या॒मोदि॒तो ग॑न्ध॒र्वमावी॑वृताम्। अग॒न्त्स दे॒वः प॑र॒मंस॒धस्थ॒मग॑न्म॒ यत्र॑ प्रति॒रन्त॒ आयुः॑ ॥

    स्वर सहित पद पाठ

    रा॒या । व॒यम् । सु॒ऽमन॑स: । स्या॒म॒ । उत् । इ॒त: । ग॒न्ध॒र्वम् । आ । अ॒वी॒वृ॒ता॒म॒ । अग॑न् । स: । दे॒व: । प॒र॒मम् । स॒धऽस्थ॑म् । अग॑न्म । यत्र॑ । प्र॒ऽति॒रन्ते॑ । आयु॑: ॥२.३६॥


    स्वर रहित मन्त्र

    राया वयंसुमनसः स्यामोदितो गन्धर्वमावीवृताम्। अगन्त्स देवः परमंसधस्थमगन्म यत्र प्रतिरन्त आयुः ॥

    स्वर रहित पद पाठ

    राया । वयम् । सुऽमनस: । स्याम । उत् । इत: । गन्धर्वम् । आ । अवीवृताम । अगन् । स: । देव: । परमम् । सधऽस्थम् । अगन्म । यत्र । प्रऽतिरन्ते । आयु: ॥२.३६॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 36

    टिप्पणीः - ३६−(राया) धनेन (वयम्) (सुमनसः) प्रसन्नचेतसः (स्याम) (उत्) उत्कर्षेण (इतः) अस्मात् स्थानात् (गन्धर्वम्) विद्याधारकंपुरुषम् (आ) समन्तात् (अवीवृताम्) णिचि लुङि रूपम्। वर्तमानं कुर्याम् (अगन्)प्राप्नोतु (सः) (देवः) विद्वान् (परमम्) उत्कृष्टम् (सधस्थम्) सभास्थानम् (अगन्म) वयं गच्छेम (यत्र) यस्मिन् पदे (प्रतिरन्ते) प्रकर्षेण तरन्ति पारयन्ति (आयुः) जीवनम् ॥

    इस भाष्य को एडिट करें
    Top