Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 69
सूक्त - आत्मा
देवता - त्र्यवसाना षट्पदा अतिशाक्वरी
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
अङ्गा॑दङ्गाद्व॒यम॒स्या अप॒ यक्ष्मं॒ नि द॑ध्मसि। तन्मा प्राप॑त्पृथि॒वीं मोतदे॒वान्दिवं॒ मा प्राप॑दु॒र्वन्तरि॑क्षम्। अ॒पो मा प्राप॒न्मल॑मे॒तद॑ग्नेय॒मं मा प्राप॑त्पि॒तॄंश्च॒ सर्वा॑न् ॥
स्वर सहित पद पाठअङ्गा॑त्ऽअङ्गात् । व॒यम् । अ॒स्या: । अप॑ । यक्ष्म॑म् । नि । द॒ध्म॒सि॒ । तत् । मा । प्र । आ॒प॒त् । पृ॒थि॒वीम् । मो । उ॒त । दे॒वान । दिव॑म् । मा । प्र । आ॒प॒त् । उ॒रु । अ॒न्तरि॑क्षम् । अ॒प: । मा । प्र । आ॒प॒त् । मल॑म् । ए॒तत् । अ॒ग्ने॒ । य॒मम् । मा । प्र । आ॒प॒त् । पि॒तॄन् । च॒ । सर्वा॑न् ॥२.६९॥
स्वर रहित मन्त्र
अङ्गादङ्गाद्वयमस्या अप यक्ष्मं नि दध्मसि। तन्मा प्रापत्पृथिवीं मोतदेवान्दिवं मा प्रापदुर्वन्तरिक्षम्। अपो मा प्रापन्मलमेतदग्नेयमं मा प्रापत्पितॄंश्च सर्वान् ॥
स्वर रहित पद पाठअङ्गात्ऽअङ्गात् । वयम् । अस्या: । अप । यक्ष्मम् । नि । दध्मसि । तत् । मा । प्र । आपत् । पृथिवीम् । मो । उत । देवान । दिवम् । मा । प्र । आपत् । उरु । अन्तरिक्षम् । अप: । मा । प्र । आपत् । मलम् । एतत् । अग्ने । यमम् । मा । प्र । आपत् । पितॄन् । च । सर्वान् ॥२.६९॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 69
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६९−(अङ्गादङ्गात्)सर्वस्मादङ्गात् (वयम्) (अस्याः) प्रजायाः (अप) दूरीकरणे (यक्ष्मम्) राजरोगम् (नि) निश्चयेन (दध्मसि) धारयामः (तत्) मलम् (मा प्रापत्) मा प्राप्नुयात् (पृथिवीम्) (मा) निषेधे (उत) अपि च (देवान्) चक्षुरादीनीन्द्रियाणि, यथामहीधरस्य दयानन्दस्य च भाष्ये-यजुः० ४०।९। (दिवम्) प्रकाशम् (मा प्रापत्) (उरु)विस्तृतम् (अन्तरिक्षम्) (अपः) जलानि (मा प्रापत्) (मलम्) मालिन्यम् (एतत्) (अग्ने) हे विद्वन् (यमम्) वायुलोकम्। यमो यच्छतीति सतः-इति मध्यस्थानदेवतासुपाठः-निरु० १०।१९। यमः। मध्यस्थानो वायुः-इति देवराजयज्वा निघण्टुटीकायाम् (माप्रापत्) (पितॄन्) ऋतून्, यथा दयानन्दभाष्ये-यजुः० ८।६०। (सर्वान्) समस्तान् ॥
इस भाष्य को एडिट करें