Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 31
सूक्त - आत्मा
देवता - जगती
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
आ रो॑ह॒ तल्पं॑सुमन॒स्यमा॑ने॒ह प्र॒जां ज॑नय॒ पत्ये॑ अ॒स्मै। इ॑न्द्रा॒णीव॑ सु॒बुधा॒बुध्य॑माना॒ ज्योति॑रग्रा उ॒षसः॒ प्रति॑ जागरासि ॥
स्वर सहित पद पाठआ । रो॒ह॒ । तल्प॑म् । सु॒ऽम॒न॒स्यमा॑ना । इ॒ह॒ । प्र॒ऽजाम् । ज॒न॒य॒ । पत्ये॑ । अ॒स्मै । इ॒न्द्रा॒णीऽइ॑व । सु॒ऽबुधा॑ । बुध्य॑माना । ज्योति॑:ऽअग्रा: । उ॒षस॑: । प्रति॑ । जा॒ग॒रा॒सि॒ ॥२.३१॥
स्वर रहित मन्त्र
आ रोह तल्पंसुमनस्यमानेह प्रजां जनय पत्ये अस्मै। इन्द्राणीव सुबुधाबुध्यमाना ज्योतिरग्रा उषसः प्रति जागरासि ॥
स्वर रहित पद पाठआ । रोह । तल्पम् । सुऽमनस्यमाना । इह । प्रऽजाम् । जनय । पत्ये । अस्मै । इन्द्राणीऽइव । सुऽबुधा । बुध्यमाना । ज्योति:ऽअग्रा: । उषस: । प्रति । जागरासि ॥२.३१॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 31
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३१−(आरोह) आतिष्ठ (तल्पम्) पर्यङ्कम्। उच्चपदम् (सुमनस्यमाना) प्रसन्नचित्ता सती (इह)गृहाश्रमे (प्रजाम्) सन्तानम् (जनय) उत्पादय (पत्ये) (अस्मै) (इन्द्राणी)इन्द्रस्य पत्नी। ऐश्वर्यवतः पुरुषस्य भार्या। सूर्यकान्तिः (इव) यथा (सुबुधा)बहुज्ञानवती (बुध्यमाना) सावधाना (ज्योतिरग्राः) ज्योतिः प्रकाशोऽग्रे यासां ताः (उषसः) प्रभातवेलाः (प्रति) अनुलक्ष्य (जागरासि) जागृता भवेः ॥
इस भाष्य को एडिट करें