Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 59
सूक्त - आत्मा
देवता - पथ्यापङ्क्ति
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
यदी॒मे के॒शिनो॒जना॑ गृ॒हे ते॑ स॒मन॑र्तिषू॒ रोदे॑न कृ॒ण्वन्तो॒घम्। अ॒ग्निष्ट्वा॒तस्मा॒देन॑सः सवि॒ता च॒ प्र मु॑ञ्चताम् ॥
स्वर सहित पद पाठयदि॑ । इ॒मे । के॒शिन॑: । जना॑: । गृ॒हे । ते॒ । स॒म्ऽअन॑र्तिषु: । रोदे॑न । कृ॒ण्व॒न्त: । अ॒घम् । अ॒ग्नि:। त्वा॒ । तस्मा॑त् । एन॑स: । स॒वि॒ता । च॒ । प्र । मु॒ञ्च॒ता॒म् ॥२.५९॥
स्वर रहित मन्त्र
यदीमे केशिनोजना गृहे ते समनर्तिषू रोदेन कृण्वन्तोघम्। अग्निष्ट्वातस्मादेनसः सविता च प्र मुञ्चताम् ॥
स्वर रहित पद पाठयदि । इमे । केशिन: । जना: । गृहे । ते । सम्ऽअनर्तिषु: । रोदेन । कृण्वन्त: । अघम् । अग्नि:। त्वा । तस्मात् । एनस: । सविता । च । प्र । मुञ्चताम् ॥२.५९॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 59
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५९−(यदि) सम्भावनायाम् (इमे) समीपस्थाः (केशिनः) क्लिशेरन् लो लोपश्च। उ०५।३३। क्लिश उपतापे-अन्, लस्य लोपः। केश-इनि। क्लेशिनः। क्लेशयुक्ताः (जनाः)मनुष्याः (गृहे) (ते) तव (समनर्तिषुः) मिलित्वा नर्तनम् इतस्ततो गमनं कुर्युः (रोदेन) विलापेन (कृण्वन्तः) कुर्वन्तः (अघम्) दुःखम् (अग्निः) तेजस्वी (त्वा)त्वाम् (तस्मात्) (एनसः) कष्टात् (सविता) प्रेरकः पुरुषः (च) (प्र) प्रकर्षेण (मुञ्चताम्) एकवचनं लोट्। मोचयतु ॥
इस भाष्य को एडिट करें