Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 40
    सूक्त - आत्मा देवता - जगती छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    आ वां॑ प्र॒जांज॑नयतु प्र॒जाप॑तिरहोरा॒त्राभ्यां॒ सम॑नक्त्वर्य॒मा। अदु॑र्मङ्गली पतिलो॒कमावि॑शे॒मं शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥

    स्वर सहित पद पाठ

    आ । वा॒म् । प्र॒ऽजाम् । ज॒न॒य॒तु॒ । प्र॒जाऽप॑ति: । अ॒हो॒रा॒त्राभ्या॑म् । सम् । अ॒न॒क्तु॒ । अ॒र्य॒मा। अदु॑:ऽमङ्गली । प॒ति॒ऽलो॒कम् । आ । वि॒श॒ । इ॒मम् । शम् । न॒: । भ॒व॒ । द्वि॒ऽपदे॑ । शम् । चतु॑:ऽपदे ॥२.४०॥


    स्वर रहित मन्त्र

    आ वां प्रजांजनयतु प्रजापतिरहोरात्राभ्यां समनक्त्वर्यमा। अदुर्मङ्गली पतिलोकमाविशेमं शं नो भव द्विपदे शं चतुष्पदे ॥

    स्वर रहित पद पाठ

    आ । वाम् । प्रऽजाम् । जनयतु । प्रजाऽपति: । अहोरात्राभ्याम् । सम् । अनक्तु । अर्यमा। अदु:ऽमङ्गली । पतिऽलोकम् । आ । विश । इमम् । शम् । न: । भव । द्विऽपदे । शम् । चतु:ऽपदे ॥२.४०॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 40

    टिप्पणीः - ४०−(वाम्) युवाभ्याम् (प्रजाम्) सन्तानम् (आ जनयतु) उत्पादयतु (प्रजापतिः)परमेश्वरः (अहोरात्राभ्याम्) रात्रिदिनाभ्याम्। सर्वदेत्यर्थः (समनक्तु)संयोजयतु (अर्यमा) श्रेष्ठानां मानकर्ता (अदुर्मङ्गली) दुष्टलक्षणरहिता (पतिलोकम्) पतिकुलम् (आ विश) प्रविश (इमम्) (शम्) सुखप्रदा (नः) अस्माकम् (भव) (द्विपदे) मनुष्यादिसमूहाय (शम्) (चतुष्पदे) गवादिपशुसमूहाय ॥

    इस भाष्य को एडिट करें
    Top