Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 35
    सूक्त - आत्मा देवता - पुरोबृहती त्रिष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    नमो॑गन्ध॒र्वस्य॒ नम॑से॒ नमो॒ भामा॑य॒ चक्षु॑षे च कृण्मः। विश्वा॑वसो॒ ब्रह्म॑णाते॒ नमो॒ऽभि जा॒या अ॑प्स॒रसः॒ परे॑हि ॥

    स्वर सहित पद पाठ

    नम॑: । ग॒न्ध॒र्वस्य॑ । नम॑से। नम॑: । भामा॑य । चक्षु॑षे । च॒ । कृ॒ण्म॒: । विश्व॑वसो॒ इति॒ विश्व॑ऽवसो । ब्रह्म॑णा । ते॒ । नम॑: । अ॒भि । जा॒या: । अ॒प्स॒रस॑: । परा॑ । इ॒हि॒ ॥२.३५॥


    स्वर रहित मन्त्र

    नमोगन्धर्वस्य नमसे नमो भामाय चक्षुषे च कृण्मः। विश्वावसो ब्रह्मणाते नमोऽभि जाया अप्सरसः परेहि ॥

    स्वर रहित पद पाठ

    नम: । गन्धर्वस्य । नमसे। नम: । भामाय । चक्षुषे । च । कृण्म: । विश्ववसो इति विश्वऽवसो । ब्रह्मणा । ते । नम: । अभि । जाया: । अप्सरस: । परा । इहि ॥२.३५॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 35

    टिप्पणीः - ३५−(नमः) अन्नम्-निघ० २।७। (गन्धर्वस्य) विद्याधारकपुरुषस्य (नमसे) अन्नाय। भोजनाय (नमः) (अन्नम्) (भामाय)अर्तिस्तुसुहुसृधृक्षिक्षुभाया०। उ० १।१४०। भा दीप्तौ-मन्। दीप्यमानाय (चक्षुषे)मेत्राय। सर्वेन्द्रियायेत्यर्थः (च) (कृण्मः) कुर्मः (विश्वावसो) हे सर्वधनिन्वर (ब्रह्मणा) उदकेन सह-निघ० १।१२। (ते) तुभ्यम् (नमः) अन्नम् (अभि) अभीत्य (जायाः) उत्पत्तिकारणानि (अप्सरसः) म० ९। कर्मसु व्यापनशीलाः स्त्रियः (परा)निकटे (इहि) गच्छ ॥

    इस भाष्य को एडिट करें
    Top