Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 41
    सूक्त - आत्मा देवता - त्रिष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    दे॒वैर्द॒त्तंमनु॑ना सा॒कमे॒तद्वाधू॑यं॒ वासो॑ व॒ध्वश्च॒ वस्त्र॑म्। यो ब्र॒ह्मणे॑चिकि॒तुषे॒ ददा॑ति॒ स इद्रक्षां॑सि॒ तल्पा॑नि हन्ति ॥

    स्वर सहित पद पाठ

    दे॒वै: । द॒त्तम् । मनु॑ना । सा॒कम् । ए॒तत् । वाधू॑ऽयम्। वास॑: । व॒ध्व᳡: । च॒ । वस्त्र॑म् । य: । ब्र॒ह्मणे॑ । चि॒क‍ि॒तुषे॑ । ददा॑ति । स: । इत् । रक्षां॑सि । तल्पा॑नि । ह॒न्ति॒ ॥२.४१॥


    स्वर रहित मन्त्र

    देवैर्दत्तंमनुना साकमेतद्वाधूयं वासो वध्वश्च वस्त्रम्। यो ब्रह्मणेचिकितुषे ददाति स इद्रक्षांसि तल्पानि हन्ति ॥

    स्वर रहित पद पाठ

    देवै: । दत्तम् । मनुना । साकम् । एतत् । वाधूऽयम्। वास: । वध्व: । च । वस्त्रम् । य: । ब्रह्मणे । चिक‍ितुषे । ददाति । स: । इत् । रक्षांसि । तल्पानि । हन्ति ॥२.४१॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 41

    टिप्पणीः - ४१−(देवैः) विद्वद्भिः (दत्तम्) (मनुना)मननशीलेन राज्ञा (साकम्) सह (एतत्) दृश्यमानम् (वाधूयम्) वैवाहिकम् (वासः)परिधानीयम् (वध्वः) चतुर्थ्यर्थे बहुलं छन्दसि। पा० २।३।६२। इति षष्ठी। वध्वै (च) (वस्त्रम्) योग्यतासूचकं वसनम् (यः) विद्वान् (ब्रह्मणे) वेदवेत्त्रेपुरुषाय (चिकितुषे) विद्यावते (ददाति) प्रयच्छति (सः) (इत्) एष (रक्षांसि)दोषान् (तल्पानि) खष्पशिल्पशष्प०। उ० ३।२८। तल प्रतिष्ठायां-प प्रत्ययः, ततःअर्शआद्यच्। तल्पे प्रतिष्ठायांसम्माने भवानि (हन्ति) नाशयति ॥

    इस भाष्य को एडिट करें
    Top