Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 73
    सूक्त - आत्मा देवता - अनुष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    ये पि॒तरो॑वधूद॒र्शा इ॒मं व॑ह॒तुमाग॑मन्। ते अ॒स्यै व॒ध्वै॒ संप॑त्न्यै प्र॒जाव॒च्छर्म॑यच्छन्तु ॥

    स्वर सहित पद पाठ

    ये । पि॒तर॑: । व॒धू॒ऽद॒र्शा: । इ॒मम् । व॒ह॒तुम् । आ । अग॑मन् । ते । अ॒स्यै । व॒ध्वै । सम्ऽप॑त्न्यै । प्र॒जाऽव॑त् । शर्म॑ । य॒च्छ॒न्तु॒ ॥२.७३॥


    स्वर रहित मन्त्र

    ये पितरोवधूदर्शा इमं वहतुमागमन्। ते अस्यै वध्वै संपत्न्यै प्रजावच्छर्मयच्छन्तु ॥

    स्वर रहित पद पाठ

    ये । पितर: । वधूऽदर्शा: । इमम् । वहतुम् । आ । अगमन् । ते । अस्यै । वध्वै । सम्ऽपत्न्यै । प्रजाऽवत् । शर्म । यच्छन्तु ॥२.७३॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 73

    टिप्पणीः - ७३−(ये) (पितरः) पित्रादयः (वधूदर्शाः) दृशिर् दर्शने-अण्। वधूदर्शकाः (इमम्) दृश्यमानम् (वहतुम्) विवाहोत्सवम् (आ अगमन्) आगताः (ते) पूर्वोक्ताः (अस्यै) विदुष्यै (वध्वै) (सम्पत्न्यै) पत्या सह वर्तमानायै (प्रजावत्)सन्तानसेवकादियुक्तम् (यच्छन्तु) ददतु ॥

    इस भाष्य को एडिट करें
    Top