Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 50
    सूक्त - आत्मा देवता - उपरिष्टात् निचृत बृहती छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    या मे॑प्रि॒यत॑मा त॒नूः सा मे॑ बिभाय॒ वास॑सः। तस्याग्रे॒ त्वं व॑नस्पते नी॒विंकृ॑णुष्व॒ मा व॒यं रि॑षाम ॥

    स्वर सहित पद पाठ

    या । मे॒ । प्रि॒यऽत॑मा । त॒नू: । सा । मे॒ । बि॒भा॒य॒ । वास॑स: । तस्य॑ । अग्ने॑ । त्वम् । व॒न॒स्प॒ते॒ । नी॒विम् । कृ॒णु॒ष्व॒ । मा । व॒यम् । रि॒षा॒म॒ ॥२.५०॥


    स्वर रहित मन्त्र

    या मेप्रियतमा तनूः सा मे बिभाय वाससः। तस्याग्रे त्वं वनस्पते नीविंकृणुष्व मा वयं रिषाम ॥

    स्वर रहित पद पाठ

    या । मे । प्रियऽतमा । तनू: । सा । मे । बिभाय । वासस: । तस्य । अग्ने । त्वम् । वनस्पते । नीविम् । कृणुष्व । मा । वयम् । रिषाम ॥२.५०॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 50

    टिप्पणीः - ५०−(या) (मे) मम (प्रियतमा) अतिशयेन प्रिया (तनूः) शरीरम् (सा) तनूः (मे) मम (बिभाय) बिभेति (वाससः) वसेर्णित्। उ० ४।२१८। वस हिंसायाम्-असुन्, णित्। हिंसाकर्मणः सकाशात् (तस्य) हिंसाकर्मणः (अग्रे) आदौ (त्वम्) (वनस्पते) वननीयस्य सेवनीयव्यवहारस्यरक्षक (नीविम्) नौ व्यो यलोपः पूर्वस्य च दीर्घः। उ० ४।१३६। नि+व्येञ्संवरणे-इण् डित्, यलोपः, उपसर्गस्य दीर्घः। कटिबन्धनम्। प्रबन्धम् (कृणुष्व)कुरु (वयम्) (मा रिषाम) दुःखिता न भवेम ॥

    इस भाष्य को एडिट करें
    Top