Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 24
    सूक्त - आत्मा देवता - परानुष्टुप् त्रिष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    आ रो॑ह च॒र्मोप॑सीदा॒ग्निमे॒ष दे॒वो ह॑न्ति॒ रक्षां॑सि॒ सर्वा॑। इ॒ह प्र॒जां ज॑नय॒ पत्ये॑अ॒स्मै सु॑ज्यै॒ष्ठ्यो भ॑वत्पु॒त्रस्त॑ ए॒षः ॥

    स्वर सहित पद पाठ

    आ । रो॒ह॒ । चर्म॑ । उप॑ । सी॒द॒ । अ॒ग्निम् । ए॒ष: । दे॒व: । ह॒न्ति॒ । रक्षां॑सि । सर्वा॑ । इ॒ह । प्र॒ऽजाम् । ज॒न॒य॒ । पत्ये॑ । अ॒स्मै । सु॒ऽज्यै॒ष्ठ्य: । भ॒व॒त् । पु॒त्र: । ते॒ । ए॒ष: ॥२.२४॥


    स्वर रहित मन्त्र

    आ रोह चर्मोपसीदाग्निमेष देवो हन्ति रक्षांसि सर्वा। इह प्रजां जनय पत्येअस्मै सुज्यैष्ठ्यो भवत्पुत्रस्त एषः ॥

    स्वर रहित पद पाठ

    आ । रोह । चर्म । उप । सीद । अग्निम् । एष: । देव: । हन्ति । रक्षांसि । सर्वा । इह । प्रऽजाम् । जनय । पत्ये । अस्मै । सुऽज्यैष्ठ्य: । भवत् । पुत्र: । ते । एष: ॥२.२४॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 24

    टिप्पणीः - २४−(आ रोह) आतिष्ठ (चर्म) म० २२ (उप सीद) उपतिष्ठ (अग्निम्) व्यापकंपरमात्मानं भौतिकाग्निं वा (एषः) (देवः) (हन्ति) नाशयति (रक्षांसि) विघ्नान् (सर्वा) सर्वाणि (इह) गृहाश्रमे (प्रजाम्) सन्तानम् (जनय) उत्पादय (पत्ये)स्वामिने (अस्मै) (सुज्यैष्ठ्यः) ज्येष्ठ-भावे ष्यञ्। आयुषा सुवृद्धः पदेनसुश्रेष्ठो वा (भवत्) भवेत् (पुत्रः) (ते) तव (एषः) ॥

    इस भाष्य को एडिट करें
    Top